पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
[भ्वादि
सिध्दान्तकौमुदीसहिता

इय् । ‘अतो येयः’ (२२१२) इत्यत्र तु सन्धिरार्षः । भवेयुः । भवेः। भवेतम् । भवेत । भवेयम् । भवेव। भवेम ।

२२१५ । लिङाशिषि । (३-४-११६)

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ।

२२१६ । किदाशिषि । (३-४-१०४)

आशिषि लिङो यासुट् कित्स्यात् । ‘स्कोः-’ (३८०) इति सलोपः ।

२२१७ । क्ङिXति च । (१-१-५)


सन्धिरार्ष इति । आनेमुगिति सूत्रे भाष्ये तु अनेा या इय इत्येव सूत्रपाठो लक्ष्यते । भवेरिति ॥ सिपि, शपि, गुणः । अवादेश । इतश्चेति इकारलोपः । यासूटागमः । सकारद्वयस्य लोपः। इयादेशः । आद्गुणः। यलोपः। रुत्वविसर्गौ । एव थसः तमादेशे थस्य तादेशे च, भवतम् ।

भवेतेति च रूपम्। भवेयमिति ॥ मिपि अमादेश: । शप । गुण । अवादेश । यासुट। सलोपः । इयादेशः । आद्गुणः । भवेवेति ॥ वस शप् गुणावादेशौ । नित्यड्डित इति सकारलोपः ।

यासुट् । सलोपः । इयादेशः । आद्गुणः यलोप । एव मसि भवेमेति रूपम् । इति विधिलिङ्X प्रक्रिया ॥ अथाशीर्लिङि विशेषमाह । लिङाशिाषीति ॥ लिडिति लुप्तषष्ठीक पदम तिड्शिXत्सार्वधातुकमित्यतस्तिडित्यनुवर्तते । तदाह । आशिषिलिङस्तिङिति । सार्वधातुकसंज्ञापवादोऽयम् । ततश्च सार्वधातुकसज्ञाकार्यं शबादि न भवति । किदाशिाषीति ॥ लिडस्सीयुडित्यत लिड इत्यनुवर्तते । यासुट परस्मैपदेष्वित्यन यासुडिति च । तदाह । आशिषि लिङ इति ॥ यासुट् परस्मैपदेष्विति डित्वस्यापवादः । यद्यपि डित्वेनैव गुणनिषेधस्सिध्यति । तथापि इज्यादित्यादौ वाचिस्वपियजादीनां कितीति सम्प्रमाग्णाद्यर्थे कित्वमावश्यकम् इह न्याय्यत्वादुपन्यस्तम् । अथ आशिषि लिडस्तिपि आर्धधातुकत्वात् शबभावे इतश्चेतीकारलोपे यासुडागमे अतः परत्वाभावात् सार्वधातुकत्वाभावायX इयादेशाभावेसुटि भूयास् स् त् इति स्थिते प्रक्रियामाह । स्कोरिति । सलोप इति ॥ लिइस्सलोप इत्यस्य सार्वधातुकविषयत्वात् स्कोरिति सुटः पदान्तसयेगादित्वात् लोपः । ततः यामुटस्सस्यापि पदान्तसंयोगादित्वादेव लोपः । न तु झल्परसंयोगादित्वेन यासुटस्सस्य लोपे सुट: सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तम् । तथासति झल्परसंयोगादिलोपस्यासिद्धत्वेन सयोगान्तलोपापत्तेः । भ्रष्ट इत्यादौ सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपाबाधकत्वादिति शब्दरत्ने विस्तरः । एव च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् । तत्र सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते । क्डिति चेति ॥ गुक्ङ् एषां समाहारद्वन्द्वः कात्पूर्वं गकारस्य चत्वेXन निर्देशात् गकङ च इत् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकमन्वेति । तथा च गिनि किनिX