पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२३
बालमनोरमा ।


२२१० । सुट् तिथोः । (३-४-१०७

लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ।

२२११ । लिङः सलोपोऽनन्त्यस्य । (७-२-७९)

सार्वधातुकलिङोऽनन्त्यम्य सस्य लोपः स्यात्। इति सकारद्वयस्यापि निवृत्तिः । सुट: श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्रात्मनेपदे ।


मेव यासुटो डित्वमिति भाव । ज्ञापनफलन्तु वृक्ष्यमाणेत्यत्र डीबभाव । अन्यथा लृडादेशस्य शानच स्थानिवत्वेन टित्वान डीप् स्यात् । ननु क्वचिदनुबन्धकार्येऽयनल्विधाविति निषेध इत्यत्र यासुटो डित्ववचन न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधभावे सत्यपि यासृटो डित्वस्य तिपसिपमिबागमयासृटो डित्वार्थमावश्यकत्वात् । नहि लिडादेशत्वेऽपि तिप् सिप् भिपां डित्व स्थानिवत्वलभ्यम्। हलश्श्नाश्शानज्झाविति सूत्रभाष्ये डिच्च पिन्न पिच्च डिन्नेति प्रपञ्चितत्वादित्यस्वरसादाह । श्नश्शानचः शित्वमपीह लिंगमिति ॥ इह अनुबन्धकार्येऽपि क्वचिदनाल्विधाविति निषेधेऽस्तीत्यास्मिन्नर्थे श्न श्राप्रत्ययस्य यः शानजादेशः हल: श्नश्शानज्झाविति विहितः तस्य शित्वमपि लिङ्गम् । ज्ञापकमित्यर्थ । अन्यथा स्थानिवत्वेनैव तस्य शित्वसिद्धेस्तद्वचन व्यर्थ स्यादिति भाव । अत्र च यद्वक्तव्यन्तन् स्त्रीप्रत्ययनिरूपणे वक्ष्यमाणेत्यत्र प्रपाञ्चितम् । तथा च प्रकृते भव यास् त् इति स्थिते । सुडिति ॥ लिडस्सीयुडित्यत लिड इत्यनुवर्तते । तेिश्च थश्चेति द्वन्द्वात् षष्ठीद्विवचनम् । इकार उच्चारणार्थः । तदाह । र्लिङस्तकारेति ॥ मुटेि टकार इत् उकार उच्चारणार्थः । भव यास स त् इति स्थितम् । नान्विह परेण सुटा यासुटः कथन्न बाधः । भवेयुरित्यादौ परस्मैपदेषु यासुड्विधेः चरितार्थत्वादित्याशङ्क्य निराकरोति । सुटा यासुट न बाध्यत इति ॥ तत् कुत इत्यत आह । लिङो यासुट इति । लिङस्सीयुट यासुडागमश्च । लिडादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च यौगपद्यासम्भवात् विप्रतिषेधाभावान्न परेणापि सुटा यासुटो बाध इति भाव । लिङ इति ॥ सेति लुप्तषष्ठीक पदम् । रुदादिभ्यस्सार्वधातुक इत्यतस्सार्वधातुक इत्यनुवृत्तम् षष्ठ्या विपरिणम्यते । तदाह । सार्वधातुकालिङ इति । सकारद्वयस्यापीति ॥ अविशेषात् सकारद्वयस्यापि युगपल्लोप प्रवर्तते । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति तु पर्यायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः । यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिद्धयति । तथापि भवेयुरित्याद्यर्थ सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह । सुटः श्रवणान्त्वाशीर्लिङीति ॥ भूयास्तामित्यादौ लिंडाशिषात्यार्धधातुकत्वेन तत्र सकारलोपस्याप्रसक्तेरिति भाव । व्यञ्जनपरस्यैकस्यानेकस्य वोच्चारणे विशेषाभाव इति भाष्यादाह। स्फुटतरान्त्विति ॥ तत्रापि आशिषि लिड्यपि एधिषीष्टेत्यादावात्मने पदे स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः । तत्र यामुटः अभावेन सलोपाभावेन च सुट एव सकारस्य पृथक् स्पष्ट श्रवण-