पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
[भ्वादि
सिध्दान्तकौमुदीसहिता

२२१२ । अतो येयः । (७-२-८०)

अतः परस्य सार्वधातुकावयवस्य ‘या’ इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । ‘सार्वधातुक-’ इति किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ।



सम्भवादिति भावः । तथाच भव यात् इति स्थिते । अत इति ॥ या इति लुप्तषष्ठीक पदम् । अत इति पञ्चमी। परस्येत्यध्याहार्यम्। इय इत्यत्राकार उच्चारणार्थः । रुदादिभ्य इत्यस्मात् सार्वधातुक इत्यनुवृत्तम् अवयवषष्ठ्या विपरिणम्यते । तदाह। अतः परस्येत्यादिना ॥ भव इय न इनि स्थितम् । गुण इति ॥ आद्गुण इत्यनेनेति शेषः। भवेथ त्X इति स्थितम् । यलोप इतेि ॥ लोपो व्योरित्यनेनेति शेषः । भवेदिति ॥ यलेापात् प्राक् हलडयादिलोपस्सयोगान्तलोपश्च न शङ्क्यः । अन्तरङ्गत्वेन यलोपस्य पूर्वम्प्रवृतेः संयोगान्तलोपस्य त्रैपादिकत्वेनामिद्धत्वाच्चेति भावः । सार्वधातुके किमिति ॥ रुदादिभ्य इत्यतस्सार्वधातुक इत्यनुवृत्तिलभ्य सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीर्लिडि आर्धधातुके अतः परत्वाभावादेव इयादेशाभावमिद्धेः सार्वधातुकग्रहणानुवृत्तिर्व्यर्थेत्याशयः । चिकीर्ष्यादिति ॥ कृXधातोस्मन्नन्तान आशीर्लिडि तिबादौ विकीर्ष यादिति स्थिते अतो लोप इत्यकारलोपे च्चिकीर्ष्यादिति रूपम् । तत्र अतो येय इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्षयादिति स्थिते अतो येय इति इयादेशे आद्गुणे यलोपे चिकीर्ष्येदिति स्यात् । सार्वधातुकग्रहणानुवृत्तौ तु न दोषः । आशीर्लिडादशस्य निडः लिडाशिषीत्यार्धधातुकतायाः वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिडि चिकीर्षयादिति स्थिते नित्यत्वात् अतो लोप इति अकारलोपे सति अतः परत्वाभावादेव अतो येय इत्यस्याप्रवृत्तेः तत्र सार्वधातुकग्रहणानुवृत्तिर्व्यर्थैवेत्यत आह । मध्येऽपवादन्यायेन ह्यतो लोप एव बाध्येतेति ॥ षष्ठस्य चतुर्थपादे अतो लोप इति सूत्रम् । सप्तमस्य द्वितीयपादे अतो येयेति सूत्रम । सप्तमस्य चतुर्थपादे तु अतो दीर्घो यञीति सूत्रमिति स्थितिः । तत्र आशीर्लिडि आर्धधातुके चिकीर्षयादित्यत्राल्लोपप्राप्त्या विधिलिडि तु भवयादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति मद्ध्येऽपवादाः पूर्वान्विधीन् बाधन्ते नोत्तरानिति न्यायेनातो लोप एव बाधमर्हति । न तु अतो दीर्घ इत्यर्थः । एवञ्चार्धधातुके चिकीर्षयादिति स्थिते अतः परत्वादियादेशः प्रसज्येतेत्यतिव्याप्तिस्यादिति स्थितम् । एवञ्चाव्याप्तिरपीत्याह । भवेदित्यादाविति ॥ अतः परस्य इयादेशविधौ सार्वधातुकग्रहणाननुवृत्तौ विधिलिडस्तिपि सार्वधातुके भव यादिति स्थिते इयादेशम्परत्वात् बाधित्वा अतो दीर्घो यञीति यञादौ सार्वधातुके परे अतो विधीयमानो दीर्घस्स्यात् । ततश्च अतः परत्वाभावादियादेशो न स्यादित्यव्याप्तिस्यादित्यर्थः । नच इयादेशस्य निरवकाशत्वात् दीर्घबाधकत्वं शङ्क्यम् । चिकीर्ष्यादित्यार्धधातुके दीर्घप्राप्त्ययोग्ये इयादेशस्य सावकाशत्वादिति भावः । भवेतामिति ॥ तसस्तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या