पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२१
बालमनोरमा ।

अनद्यतनभूतर्थवृत्तेर्धातोर्लङ्स्यात् ।

२२०६ । लुङ्लङ्लृङ्क्ष्वडुदात्तः (६-४-७१)

एषु परेष्वङ्गस्याडागमः स्यात् सचोदात्तः |

२२०७ । इतश्च (३-४-१००)

ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्यलोपः स्यात्। अभवत् । अभवताम् । अभवन् । अभवः । अभवतम्। अभवत । अभवम्। अभवाव । अभवाम ।

२२०८ । विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् । (३-३-१६१)

एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणम्, भृत्यादेर्निकृष्टस्य इति चाधिकृतम् । भूत इति धात्वर्थे अन्वेति । तदाह अनद्यतनभतार्थवृत्तेरिति ॥ लुङ्लाङिति ॥ अङ्गस्येल्यधिकृतम् । तदाह । एषु परेषु अंगास्येति ॥ अन्तरङ्गत्वात् नित्यत्वात्परत्वाच्च यथायथ तिपि शपि विकरणे गुणे अवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः । लावस्थायामेवाडागम इति तु पक्षान्तर भाष्ये स्थितम् । इतश्चेति ॥ लस्येत्याधिकृतम् । इतश्च लोप परस्मैपदेष्वित्यस्मात् लोप इति परस्मैपदेष्विति चानुवर्तते । परस्मैपदेष्वित्येतत् षष्ठ्या विपरिणम्यते । तदाह । डितो लस्येत्यादिना ॥ अलोऽन्त्यस्येत्यन्यस्य लोपः । तदाह । अभवदिति । अभवतामिति ॥ लङ्स्तसः तामादेशः शप् गुणावादेशौ अट् । अभवन्निति ॥ झेरन्तादेशः । शप गुणावादेशौ। अट् इतश्चेति इकारलोपः । तकारस्य सयोगान्तलोपः । अभव इति । सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ । अभवतमिति ॥ थसस्तमादेशः । शप गुणावादेशै अट् । अभवतेति ॥ थस्य तादेशे शपि गुणे अवादेशे अटि । अभवमिति ॥ मिप अमादेशे शपि गुणे अवादेशे पूर्वरूपम् । अभवावेति ॥ वसि शपि गुणावादेशौ। अट् अतो दीर्घो यञीति दीर्घः । नित्यड्डित इति सकारलोपः । एव मसि अभवामेति रूपम् । इति लड् प्रक्रिया ॥ विधिनिमन्त्रणेति ॥ ननु विध्यादयो हि न लिडो वाच्याः । लः कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् । नच लः कर्मणि चेति शास्र लिड्व्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यम् । तथा सति यजेतेत्यादौ कर्तृवाचकत्वाभावेन शबाद्यनापत्तेरित्यत आह । द्योत्येष्विति ॥ ल. कर्मणि चेति सूत्रं सामान्याविषयश्चेदपि विधिनिमन्त्रणेति विशेषशात्रेण न बाध्यते । अविरोधात् । तथाच विध्यादिविशिष्टकर्त्रादिषु लिडिति फलतीति मत्वाह । वाच्येषु वेति ॥ पक्षद्वयमपीद भाष्ये स्थितम् । विधिः प्रेरणमिति भाष्यम्। अर्थतस्सगृह्णाति । विधिः प्रेरणमिति ॥ ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनरुक्तयमित्यतो व्याचष्टे । भृत्यादेर्निकृष्टस्य प्रवर्तनामिति । तद्यथा भृत्य खाXमी वदति । भवान् वस्त्र क्षाळयेदिति । आमन्त्रणात् भेद दर्शयितु