पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
[भ्वादि
सिध्दान्तकौमुदीसहिता


अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ।

२१७९ । हलादिः शेषः । (७-४-६०)

अभ्यासस्यादिर्हल्शिप्यतेऽन्ये हलो लुप्यन्ते । इति वलोपः ।

२१८० । ह्रस्वः । (७-४-५९)

अभ्यासस्याचो ह्रस्वः स्यात् ।

२१८१ । भवतेरः । (७-४-७३)

भवतरभ्यासोवकारस्य ‘अ:’ स्याल्लिटि ।

२१८२ । अभ्यासे चर्च । (८-४-५४)

अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः, । खयां चरः । तत्रापि प्रकृतेिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेकः । आन्तरतम्यान् ।


षाष्ठद्वित्वप्रकरण इत्यर्थः । तेन सर्वस्य द्वे इत्यादिविहितस्य द्वित्वस्य न सग्रहX । कस्य पूर्व इत्याकांक्षायां द्वे इत्यनुवृत्त षष्ठ्या विपरिणत सम्बद्ध्यते । तदाह । ये द्वे विहिते तयोरिति । हलादिरिति ॥ अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते । शिष्यत इति शेषः कर्मणि घञ् | शिषधातुरितरनिवृत्तिपूर्वकावस्थितौ |तदाह । अभ्यासस्येत्यादिना। इति वलोप इति ॥ भूव् भूव् इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः । भू भूव अ इति स्थिते । ह्रस्व इति ॥ अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते । ह्रस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम् । तदाह । अभ्यासस्याच इति ॥ भू भूव अ इति स्थितम् । यद्यपि भवतेर इति वक्ष्यमाणाकारविधिनैव सिद्धमिदम् । तथापि लुलावेत्याद्यर्थमावश्यकमिदम् अत्रैव न्याय्यत्वादुपन्यस्तम्। भवतेतर इति ॥ भवतेः अ इति छेदः भवतेरिति श्निपा निर्देशः । भूधातोरित्यर्थः। इक्श्तिपौX धातुनिर्देशे इत्युक्तेः । अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते । व्यथो लिटि दीर्घ इत्यस्मात् लिटीति भूधातोरभ्यासस्य भवन्नकार: अलोन्त्यस्येत्यन्त्यस्योकारस्य भवति । तदाह । अभ्यासोकारस्येति ॥ नानर्थकेऽलोन्यविधिरिति तु नेह प्रवर्तते । अनभ्यासविकार इत्युक्तेः । भ भू व् अ इति स्थिते । अभ्यासे इति ॥ झलाञ्जश्झशीत्यस्मात् झलामित्यनुवर्तते । चकारेण जश् समुच्चीयते । तदाह । अभ्यामे झलामित्यादिना ॥ झलश्चतुर्विंशतिः । तत्र शापसाः शरः । तेषामभ्यागे लोपो वक्ष्यते । शर्पूर्वाः खय इति हकारस्य त्वभ्यासे कुहोश्चुरिति श्चुत्व वक्ष्यते । एवञ्च झलषु अयो विशतिरिहाभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मद्ध्ये कस्य चरः कस्य जशः इत्याकांक्षायामाहX । झशां जश इति ॥ वर्गाणान्तृतीयचतुर्थी झशः । तेषां जशः जबगडदा इत्यर्थः । यद्यद्वर्ग्याः स्थानिनः तत्तद्वर्ग्या आदेशा इत्यपि बोद्ध्यम् । खयाञ्चर इति ॥ वर्गाणां प्रथमद्वितीयाः