पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३
बालमनोरमा

२१८३ । असिद्धवदत्राभात् । (६-४-२२)

इत ऊर्ध्वमापादपारिसमाप्तेराभीयम् समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ।

खयः तेषां चर चटतकपा इत्यर्थः । अत्रापि यद्यद्वर्ग्या स्थानिन तत्तद्वर्ग्या आदेशा इत्यपि बोद्ध्यम् । तत्रापीति ॥ तेष्वपि वर्ग्येषु प्रकृत्या स्वभावेन जशामेव सतां प्रकृत्या स्वभावेन जश एव सन्तस्तत्तद्वर्ग्या आदेशास्स्यु । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वर्ग्या आदेशास्स्युरित्यर्थः । पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः । कुत इय व्यवस्थेत्यत आह । आन्तरतम्यादिति ॥ झशां जशाञ्च घोषसवारनादप्रयत्नसाम्यम् । खया चराश्च श्वासाघोषाविवारप्रयत्नसाम्यम् । तत्तद्वर्ग्याणां तत्तद्वर्ग्या आदेशा इत्यत्र तु स्थानसाम्यन्नियामक बोद्ध्यम् । तथा च प्रकृते अभ्यासभकारस्य बकारे सति बभूव् अ इति स्थिते अचिश्नुधात्वित्युवडादेशमाशङ्कितुमाह । असिद्धवदिति ॥ षष्ठस्य चतुर्थपादे इदं सूत्रम्। श्नान्नलोप इति सूत्रात् पूर्व पठितम्। आभादित्यभिविधावाड् भस्येत्याधिकारमभिव्यायेत्यर्थ । भाधिकारश्च आपादपरिसमाप्तेरिति सिद्धान्तः । तथा च आपादपरिसमाप्तेरिति लभ्यते । विहित कार्यमिति शेष । किमारभ्येत्याकांक्षायामुपस्थितत्वादस्मादेवसूत्रादूर्द्ध्वमिति लभ्यते । ततश्च श्नान्नलोप इत्यारभ्यापादसमाप्ते विहित यदाभीय कार्य तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्त भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र श्नान्नलोप इत्यादै प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्ये इति लभ्यते । एवञ्च श्नान्नलोप इत्यादिनXत्तदाभीय कार्यं श्रान्नलोप इत्याद्याभीये कार्ये कर्तव्ये असिद्धवादित्यर्थः पर्यवस्यति । अत्रेत्यनेन निमित्तसप्तम्यन्तेनत्वसिद्धीभवत कार्यस्य यन्निमित्त तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात् समानाश्रये कार्ये कर्तव्ये सतीति लभ्यते । एतत्सर्व भाष्ये स्थितम् । तदाह ।इत ऊर्द्ध्वमित्यादिना । तस्मिन्निति ॥ आभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहारणम् । अत्र ध्वसोरेद्धावभ्यासलोपश्चेत्यस्तेरेत्वस्य शाहाविति शास्तेः शाभावस्य चाभीयत्वेनासिद्धत्वात् हुझल्भ्योहेर्धिरिति हेर्धित्वमाभीय प्रवर्तते । तथा जघहीत्याद्यायुदाहरणम् । हनधातोर्यड्लुगन्तात् लोण्मध्यमपुरुषैकवचने सिपो हिभावे अनुदात्तोपदेशेति नलोपस्याभीयस्यासिद्धत्वादतोहेरित्याभीयो लुड्न भवति । समानाश्रय इति किम्। पपुष इत्यत्र पाधातोर्लिटः क्वसौ लिटिधातेरिति द्वित्वे अभ्यासह्रस्वे क्वस्वन्तात् द्वितीयाबहुवचने शसि वसोस्सम्प्रसारणमाभीयमातोलोप इटि चेत्याल्लोपे आभीये कर्तव्ये असिद्धन्न भवति । आल्लोपः क्वसौ, सम्प्रसारणन्तु शसीति भिन्नाश्रयत्वात् । आभीये कर्तव्ये इति किम् । अभाजि राग इत्यत्र भञ्जेश्चिाणि रञ्जेर्घञि च कृते । रजेश्च, घञि च भावकरणयोरिति नलोपस्याभीयस्यानाभीयायामुपधावृद्धौ कर्तव्यायान्नासिद्धत्वम्। आभादित्यभिविधिः किम् । भाधिकारात् प्रागित्युक्ते भूयानित्यत्र बहोर्लोपो भूच बहोरिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये आसिद्धत्वन्न स्यात् । भस्येति सूत्रादूर्ध्वभावित्वादित्यलम् । इति वुकोऽसिद्धत्वादिति ॥ वुक आभीयस्य अचि श्नुधात्वि