पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११
बालमनोरमा ।


२१७७ । लिटेि धातोरनभ्यासस्य । (६-१-८)

लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । ‘भूव्’ ‘भूव्’ ‘अ’ इति स्थिते।

२१७८ । पूर्वोऽभ्यासः । (६-१-४)


ष्यडस्सम्प्रसारणामित्यतः प्राक् अनुवर्त्येते एवेति भाव । लिटि धातोरिति ॥ एकाचो द्वे प्रथमस्येत्यधिकृतम्। धातोरित्यवयवषष्ठी। तदाह । धात्ववयवस्यति ॥ एकाच इति प्रथमस्येति च धात्ववयवस्य विशेषणम् । एक अच् यस्येति तद्गुणसविज्ञानो बहुव्रीहिः । तथा च लिटि परे अभ्यासभिन्नस्यैकाच्कस्य प्रथमस्य धात्ववयवस्य द्वे उच्चारणे स्त इत्यर्थ । एकाच इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् । अजादेर्द्वितीयस्येत्यायधिकृतम् । तत्राच्चासावादिश्च अजादि तस्मादिति कर्मधारयात् पञ्चमी । तदाह । आदिभूतादच परस्य तु द्वितीयस्येति । एकाच इति शेप । अजादिधात्ववयवस्य एकाचश्चेत् द्वित्वम् तर्हि द्वितीयस्यैवैकाचो द्वित्वम् । न तु प्रथमस्येति यावत् । अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याहृत्यैकाच प्रथमस्येति कृद्योगलक्षणषष्ठीश्चाश्रित्य द्विः प्रयोग एवात्र विधीयते । न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् । आदेशप्रत्ययोरिति सूत्रभाष्येऽपि द्वि प्रयोगपक्ष एवोक्त । तादिह विस्तरभयान्नलिखितम् । प्रपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्व द्वितीयत्वञ्च व्यपदेशिवत्वेन वोद्ध्यम् । अजादेरिति बहुव्रीह्याश्रयणे तु, इन्द्रमात्मन इच्छति इन्द्रीयति तमिच्छति इन्दिन्द्रीयिषतीत्यादौ नन्द्रास्सयेोगादय इति दकारस्य द्वित्वानिषेधश्च स्यात् । तत्राजादेरियनुवृत्ते । धातोरिति किम् । तदभावे हि लिटि परे यः प्रथमः एकाच तस्य द्वे इत्यर्थ स्यात् । एव सति पपाचेत्यादावेव स्यात् | न तु जजागारेत्यादाविति भाष्ये स्पष्टम् । न च पपाचेत्यादौ लिटि धातोरिति द्वित्वे कृते लक्ष्ये लक्षणस्येति न्यायेन पुनर्द्वित्वस्याप्रसक्तेरनभ्यासग्रहण व्यर्थमिति वाच्यम् । यडन्तात् सन्यडोरिति यड्निमित्तकद्वित्वविशिष्टात् सनि सन्निभित्तकद्वित्वनिवृत्तये सन्नन्तात् सन्यडोरिति कृतद्वित्वाण्णिचि लुडेि चडि कृते चडीति द्वित्वनिवृत्तये चानभ्यासग्रहणस्यावश्यकत्वात् । भाष्ये तु कृष्णो नोनाव वृषभो यदीदमित्यादौ नुधातोयैडन्तात् सन्यडोरिति कृतद्वित्वात् नोनूय इत्यस्मात् लिटि कास्प्रत्ययादाममन्त्रे लिटीति मन्त्रपर्युदासादामभावे यस्य हल इति यकारलोपे अतो लोपे तिपो णलि वृद्धावावादेशे नोनावेत्यत्र लिटि धातोरिति द्वित्वनिवृत्तये अनभ्यासग्रहणमित्युक्त्या अनभ्यासग्रहणमनर्थकम् । छन्दसि वा वचनादित्युक्तम् । यडन्तात् सनि सन्नन्ताणिचि चड् लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् । प्रकृते च भूव् अ इत्यत्र चत्वार एकाच । तत्र भू इति प्रथमः । ऊव्इ इति द्वितीय । ऊ इति व्यपदेशिवद्भावेन तृतीयैकाच् । भूव् इति समुदायस्तु चतुर्थः । तत्र समुदाये द्विरुच्यमाने सर्वे अवयवाः द्विरुच्यन्त इति भूव् इति समुदायस्यैव द्विर्वचनमिति भाष्ये स्पष्टम् । तदाह । भूव् भूञ्X अ इति स्थित इति ॥ अत्र भूव् इत्यस्य एकाचः धात्ववयवत्वं प्रथमत्वञ्च व्यपदेशिवत्वाद्वोष्यम् । पूर्व इति ॥ अत्रेति ॥ एकाचो द्वे प्रथमस्येति