पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
बालमनोरमा


अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्य ओदनं भोक्ष्यस इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे। भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे। भोक्ष्यामहे। मन्यसे। मन्येथे। मन्यध्वे । इत्यादिरर्थः। ‘युष्मद्युपपदे’ (२१६२) इत्याद्यनुवर्तते तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्य इति । भुक्तः सोऽतिथिभिः । ‘प्रहासे’ किम्। यथार्थकथने मा भूत्। एहि मन्यस ओदनं भोक्ष्य इति भुक्तः सोऽतिथिभिरित्यादि ।

२१७१ । परोक्षे लिट् । (३-२-११५)

भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ।

२१७२ । लिट् च । (३-४-११५)


भवामीति ॥ न च भूधातोर्विहितलादेश प्रति भूधातुरेवाङ्गम् । न तु भवेति विकरणान्तमिति वाच्यम्। यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गमित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावो, भवाम इति ॥ लस्य वसि मसि च शपि गुणे अवादेशे अतो दीर्घे रुत्वे विसर्गे च रूपे । न विभक्ताविति सस्य नेत्वम्। अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्ता स्मारयितुमाह। स भवतीत्यादि ॥ अथ प्रहासे चेति सूत्रस्योदाहरति । एहीति ॥ सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातर प्रति परिहासाय प्रवृत्तमिद वाक्यम् । भो जामात , एहि आगच्छ, ओदन, भोक्ष्य, इति त्वम्मन्यसे, नैतद्युक्तमित्यर्थः । कुत इत्यत आह । भुक्तस्सोऽतिथिभिरिति ॥ स ओदनः अतिथिभिर्भक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मद्ध्यमः पुरुषः । मन्यतेस्तु मद्ध्यमपुरुषे प्राप्ते उत्तमः पुरुषः । एतं, एतवेति ॥ हे जामातरौ आगच्छतम्। ओदन भोक्ष्यावह इति मन्येथे इत्यर्थः । भो जामातरः ओदनं भोक्ष्यामह इति मन्यध्वे इति चोभयत्रापि भुजेरुत्तमे प्राप्ते मद्ध्यमः । मन्यतेस्तु मद्ध्यमे प्राप्ते उत्तमः । द्वित्वबहुत्वयोरेकवचनञ्च । इत्यादीति ॥ एहि एत एतवा मन्ये जल पास्यावः पास्याम इत्यादि सग्रहः । मन्ये इत्युत्तमपुरुषैकवचनान्तम् व्याचष्टे मन्यस इत्यादिना । अनुवर्तत इति ॥ प्रहासेचेति सूत्र इति शेषः । एतु भवानिति ॥ युष्मद्भवतोः पर्यायत्वाभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट्प्रक्रिया ॥ परोक्षे लिडिति । अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते । भूते इत्यधिकृतम् । परोक्षत्व धात्वर्थविशेषणम् । तदाह । भूतानद्यतनेत्यादिना ॥ अतीतरात्रेरन्त्यामेन आगामिरात्रेराद्ययामेन सहितो दिवसः अद्यतन इति लुड्सूत्रभाष्ये कैय्यटे च स्थितम् । परोक्षत्वन्तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । Xड्यहवृत्तत्वं त्रयहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वामितीतरे । एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियागोचरत्वं परोक्षत्वमित्येव सर्वसम्मतमित्यलम्॥ लस्य तिबादय इंति ॥ तिबादिनवकमित्यर्थः। लिट्चेति॥ लिडिति लुप्त-