पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[भ्वादि
बालमनोरमा

२१६८ । सार्वधातुकार्धधातुकयोः । (७-३-८४)

अनयोः परयोरिहाङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ।

२१६९ । झोऽन्तः । (७-१-३)

प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । ‘ अतो गुणे’ (१९१) । भवन्ति । भवसि । भवथः भवथ ।

२१७० । अतो दीर्घो यञि। (७-३-१०१)

अतोऽङ्गस्य दीर्घः स्याद्यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ।

तुक इत्यनुवर्तते । धातोरेकाचो हलादेरित्यस्माद्धातोरिति । तदाह । कर्त्रर्थ इत्यादिना॥ तिडि परे धातोर्विहिताना प्रत्ययाना शबादीनां विकरणसज्ञा प्राचीनाचार्यसिद्धा। शापाविताविति॥ शकारपकारौ लशक्वतद्धित इति हलन्त्यमिति चेत्सज्ञकावित्यर्थः । ततश्च शपि शकारपकारये: लोपे अकारमात्र शिष्यत इत्यर्थः। भू अ ति इति स्थिते । सार्वधातुक इति ॥ इको गुणवृद्धी इति परिभाषया इक इत्युपस्थितेन अङ्गस्येत्यधिकृत विशेष्यते । तदन्तविधिः । मिदेर्गुण इन्यस्मात् गुण इत्यनुवर्तते तदाह । अनयोरित्यादिना ॥ तथा च ऊकारस्य गुणः ओाकारः । अवादेश इति ॥ ओाकारम्येति शेषः । तथा च परिनिष्ठित रूपमाह । भवतीति । भवत इति ॥ कर्तृद्वित्वविवक्षायां भू धातोर्लटः तसादेशे शपि गुणे अवादेशे सकारस्य रुत्वविसर्गाविति भावः । कर्तृबहुत्वविवक्षायां भूधातोर्लटः झि इत्यादेशे शपि गुणे अवादेशे च कृते । झोन्त इति ॥ झः अन्तः इति छेदः । झ इति षष्ट्यन्तम् । आदेशे तकारात् अकार उच्चारणार्थः । आयनेयी इति सूत्रात् प्रत्ययग्रहणमनुवर्तते । नन्वादिग्रहणमपि । अस्वरितत्वात् । अनुवृत्त च प्रत्ययग्रहणमवयवषष्ठयन्तमाश्रियते । तदाह । प्रत्ययावगवस्येति । झस्य झकारस्येत्यर्थः। अन्तादेशः स्यादिति ॥ अन्त इत्ययमादेशः स्यादित्यर्थः । प्रत्ययावयवस्येति किम् । उज्झिता । अत्र धात्ववयवस्य झकारस्य न भवति । आदिग्रहणानुगृत्तौ तु शयान्तै इति न सिद्धयति । अन्तादेशान्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटिकृते झकारस्य प्रत्ययादित्वाभावात् इति भाष्ये स्पष्टम् । एवञ्च भव झि इत्यत्र झकारस्य अन्त इत्यादेशे भव अन्ति इति स्थिते अतो गुण इति द्वयोरकारयोस्सवर्णदीर्घापवादे पररूपे कृते भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाकारोच्चारणन्तु लुग्विकरणे द्विषन्तीत्यादौ अकारश्रवणार्थंम् । भवसीति ॥ मद्ध्यमपुरुषैकवचने सिपि शपि गुणे अवादेशे रूपम् । भवथ इति ॥ मध्यमपुरुषद्विवचने थसि शपि गुणे अवादेशे रुत्वविसर्गयोश्च रूपम् । न विभक्तौ तु स्मा इति सस्य नेत्वम् | भवथेति ॥ मद्ध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम्। उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भवामि इति स्थिते। अतो दीर्घ इति ॥ अङ्गस्येत्यधिकृतम् अता विशेष्यते । तदन्तविधिः। तुरुस्तुशम्यम इत्यतस्सार्वधातुक इत्यनुवृत्तम् यञाविशेष्यते । तदादि विधिः । तदाह । अदन्तस्येत्यादिना ।