पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१७१
बालमनोरमा ।

द्द्वित्वम् । ईजतुः। ईजुः । इयजिथ-इयष्ठ । ईजे । यष्टा । यक्ष्यति । यक्ष्यते । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट । डु वप् १००३ बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप-ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत्-अवप्त । वह १००४ प्रापणे ।


स्थिते सम्प्रसारणे पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः । एवञ्चात्र लिटि किति 'वचिस्वपि' इति सूत्रम् । अकिति लिटि तु 'लिट्यभ्यासस्य' इति सूत्रमिति स्थितिः । भारद्वाजनियमात्थलि वेट् । कृते द्वित्वे अकित्त्वाद्वचिस्वपीत्यप्रवृत्तौ ‘लिट्यभ्यासस्य' इत्यभ्यासयकारस्य सम्प्रसारणम् । तदाह । इयजिथ-इयष्ठेति ॥ अनिट्पक्षे व्रश्चादिना जस्य षत्वे ष्टुत्वेन थस्य ठः । ईजथु । ईज । इयाज-इयज । ईजिव । ईजिम । ईजे इति ॥ 'असयोगात्' इति कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः । ईजाते । ईजिरे । क्रादिनियमादिट् । ईजिषे । ईजाथे । ईजिध्वे । ईजे । ईजिवहे । ईजिमहे । यष्टेति ॥ तासि व्रश्चादिना जस्य षत्वे ष्टुत्वेन तकारस्य टः । यक्ष्यति-यक्ष्यते इति ॥ व्रश्चादिना जस्य षत्वे 'षढो' इति षस्य कत्वे सस्य षत्वमिति भावः । यजतु । यजताम् । अयजत् । अयजत । यजेत् । यजेत । आशीर्लिङि आह । इज्यादिति ॥ यासुटः कित्त्वात् ‘वचिस्वपि' इति सम्प्रसारणमिति भावः । यक्षीष्टेति ॥ आशीर्लिङि आत्मनेपदे प्रथमैकवचने सीयुटि जस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः । अयाक्षीदिति ॥ सिचि हलन्तलक्षणा वृद्धिः । जस्य षः तस्य कः सस्य षः इति भावः । अयष्टेति ॥ अयज् स् त इति स्थिते 'झलो झलि’ इति सलोपे जस्य षः ष्टुत्वेन तकारस्य टः इति भावः । अयक्षाताम् । अयक्षत । अयक्ष्यत् । अयक्ष्यत । डु वप् बीजसन्ताने इति ॥ प्ररोहार्थम्बीजानां क्षेत्रेषु प्रक्षेपणे इत्यर्थः । तदाह । क्षेत्रे विकिरणमिति ॥ वपि प्रकिरणार्थ इति 'सन्यडो ' इत्यत्र भाष्यम् । गर्भाधानञ्चेति ॥ "अप्रमत्ता रक्षत तन्तुमेत मा व क्षेत्रे परबीजानि वाप्सु" इत्यादौ तथा दर्शनादिति भावः । अय छेदनेऽपीति ॥ वर्तते इति शेषः । केशान् वपतीति ॥ छिनत्तीत्यर्थः । अनिडयम् । उवापेति ॥ 'लिट्यभ्यासस्य’ इत्यकित्यभ्यासस्य सम्प्रसारणमिति भावः । किति तु 'वचिस्वपि' इति द्वित्वात्प्राक्सम्प्रसारणे कृते द्वित्वम् । ऊपतुः । ऊपुः । उवपिथ । उवप्थ । ऊपथुः । ऊप । उवाप-उवप । ऊपिव । ऊपिम । ऊपे इति ॥ ऊपाते । ऊपिरे । ऊपिषे । ऊपाथे । ऊपिध्वे । ऊपे । ऊपिवहे । ऊपिमहे । वप्तेति ॥ वप्स्यति । वप्स्यते । वपतु । वपताम् । अवपत् । अवपत । वपेत् । वपेत । उप्यादिति ॥ आशिषि यासुट कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणम् । वप्सीष्टेति ॥ सीयुटि रूपम् । प्रण्यवाप्सीदिति ॥ लुडि परस्मैपदे सिचि हलन्तलक्षणा वृद्धि । ‘नेर्गद’ इति णत्वम् । अवाप्ताम् । अवाप्सुः । अवप्तेति ॥ आत्मनेपदे लुडि 'झलो झलि' इति सलोप । अवप्साताम् । वह प्रापणे इति ॥ अयमनिट् । वहति-वहते । उवाहेति ॥ 'लिट्यभ्यासस्य' इति किति अभ्यासस्य सम्प्रसारणमिति भावः । किति 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वम् । ऊहतुः । ऊहुः । भारद्वाजनियमा