पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
[भ्वादि
सिध्दान्तकौमुदीसहिता

उवाह । उवहिथ । 'सहिवहोरोदवर्णस्य' (सू २३५७) । उवोढ । ऊहे । वोढा । वक्ष्यति-वक्ष्यते । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत् । अवोढाः । अवोढ्वम् । वस १००५ निवासे । परस्मैपदी । वसति । उवास ।

२४१० । शासिवसिघसीनाञ्च । (८-३-६० )

इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ-उवस्थ । वस्ता । 'सः स्यार्धधातुके' (सू २३४२) वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् । वेञ् १००६ तन्तुसन्ताने । वयति-वयते ।


त्थलि वेट् । तदाह । उवहिथेति ॥ ‘न शसदद’ इति निषेधात् । ‘थलि च सेटि’ इति न भवति । अथ थलि अनिट्पक्षे आह । सहिवहोरोदवर्णस्येति ॥ सहिवहोरवर्णस्य ओत्स्याड्ढ्रलोपे परत इत्यर्थः । ढ्रलोप इति दीर्घम्बाधित्वा ओत्त्वमिति भावः । उवोढेति ॥ उवह् थ इति स्थिते ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्चेति भावः । ऊहथुः । ऊह । उवाह-उवह । ऊहिव । ऊहिम । क्रादिनियमादिट् । ऊहे इति ॥ ऊहाते । ऊहिरे । ऊटिषे । ऊहाथे । ऊहिध्वे । ऊहे । ऊहिवहे । ऊहिमहे । वोढेति ॥ तासि ढत्वधत्वष्टुत्वढलोपाः ओत्वञ्च । लृटि स्ये हस्य ढ: तस्य कः षत्वम् । तदाह । वक्ष्यति-वक्ष्यते इति ॥ वहतु । वहताम् । अवहत् । अवहत । वहेत् । उह्यात् । अवाक्षीदिति ॥ हलन्तलक्षणवृद्धौ ढकषा प्राग्वत् । अवोढामिति ॥ 'झलो झलि' इति सलोपे ढत्वधत्वष्ठुत्वढलोपाः ओत्त्वञ्चेति भावः । अवाक्षुरिति ॥ उसि सिचि वृद्धौ ढकषा । अवाक्षीः । अवोढम् । अवोढ । अवाक्षम् । अवाक्ष्व । अवाक्ष्म । अवोढेति ॥ लुडि आत्मनेपदे प्रथमपुरुषैकवचने अवह् स त इति स्थिते सलोपः ढत्वधत्वष्टुत्वढलोपाः ओत्त्वञ्च । अवक्षातामिति ॥ आतामि सिचि ढकषा इति भावः । अवक्षतेति ॥ 'आत्मनेपदेष्वनतः' इत्यदादेशः । अवोढ्वमिति ॥ अवक्षि । अवक्ष्वहि । अवक्ष्महि । अवक्ष्यत् । अवक्ष्यत । इति वहत्यन्ता: स्वरितेतो गताः । वसधातुरनिट् । अकिति लिटि परे 'लिट्यभ्यासस्य’ इत्यभ्यासस्य सम्प्रसारणम् । तदाह । उवासेति ॥ किति तु 'वचिवस्वपि' इति सम्प्रसारणे कृते ऊस अतुस् इति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादप्राप्ते षत्वे । शासिवसि ॥ 'सहेस्साडस्स:' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । 'इण्कोः' इति 'अपदान्तस्य मूर्धन्यः' इति चाधिकृतम् । तदाह । इण्कवर्गाभ्यामिति ॥ भारद्वाजनियमात्थलि वेट् इति मत्वा आह । उवसिथ-उवस्थेति ॥ 'न शसदद’ इति निषेधात् 'थलि च सेटि' इति न भवति । ऊषथुः । ऊष । उवास-उवस । ऊषिव । ऊषिम । क्रादिनियमादिट् । वस् स्यतीति स्थिते आह । सस्स्यार्धधातुके इति ॥ अनेन सकारस्य तकार इति भावः । वसतु । अवसत् । वसेत् । उष्यादिति ॥ आशीर्लिङि यासुट कित्त्वात् वस्य सम्प्रसारणे ‘शासिवसि’ इति षत्वमिति भावः । अवात्सीदिति ॥ सिचि