पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
[भ्वादि
सिध्दान्तकौमुदीसहिता


त्विष्यात् । त्विक्षीष्ट । अत्विक्षत् । अत्विक्षत । अत्विक्षाताम् । अत्विक्षन्त । यज १००२ देवपूजासङ्गतिकरणदानेषु । यजति-यजते ।

२४०८ । लिट्यभ्यासस्योभयेषाम् । (६-१-१७)

वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं स्याल्लिटि । इयाज ।

२४०९ । वचिस्वपियजादीनां किति । (६-१-१५)

वचिस्वप्योर्यजादीनां च सम्प्रसारणं स्यात्किति । पुन:प्रमङ्गविज्ञाना-


तित्वेषिथ । तित्विषथुः । तित्विष । तित्वेष । तित्विषिव । तित्विषिम । क्राद्रिनियमादिट् । तित्विषे इति ॥ तित्विषाते । तित्विषिरे । तित्विषिषे । तित्विषाथे । तित्विषिध्वे । तित्विषे । तित्विषिवहे । तित्विषिमहे । त्वेष्टेति ॥ तासि तकारस्य ष्टुत्वम् । त्वेक्ष्यति । त्वेक्ष्यते इति ॥ स्ये कुत्वषत्वे । त्वेषतु । त्वेषताम् । अत्वेषत् । अत्वेषत । त्वेषेत् । त्वेषेत । त्विष्यादिति ॥ यासुटः आशीर्लिङि कित्त्वान्न लघूपधगुणः । त्विक्षीष्टेति ॥ 'लिड् सिचावात्मनेपदेषु' इति कित्वान्न गुणः । लुडि परस्मैपदे 'शल इगुपधात्' इति च्लेः क्सः । कित्त्वान्न गुणः । तदाह । अत्विक्षदित्यादि ॥ लुडि आत्मनपदे च्लेः क्सादेश मत्वा आह । अत्विक्षतेति । अत्विक्षन्तेति ॥ अत्विक्ष झ इति स्थिते 'क्सस्याचि' इत्यन्त्यलोपासम्भवादतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशासम्भवादन्तादेशे क्सस्यान्त्यलोपे पररूपे वा रूपमिति भावः । यज देवपूजेति ॥ अनिडयम् । यजति-यजते इति ॥ देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः । णलि द्वित्वादौ तु ययाज इति स्थिते 'लिट्यभ्यासस्योभयेषाम्' 'ष्यङ सम्प्रसारणम्’ इत्यतः सम्प्रसारणमित्यनुवर्तते । 'वचिस्वपियजादीनाम्' इति सूत्रोपात्ताः ‘ग्रहिज्यावयि' इति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते । तदाह । वच्यादीनां ग्रह्यादीनाञ्चेति ॥ अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः । ‘यज देवपूजा' इत्यारभ्य ‘टु ओ श्चि गतिवृध्द्योः' इत्येतत्पर्यन्ताः यजादयः । तदुक्तम् ‘यजिर्वपिर्वहिश्चैव वसिर्वेञ्व्येञ इत्यपि । ह्वेञ वदिः श्वयतिश्चैव यजाद्यास्स्युरिमे नव' इति तेष्वनन्तर्भावाद्वचिस्वप्योः पृथग्ग्रहणम् । ग्रह्यादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति ॥ अभ्यासयकारस्य सम्प्रसारणे 'सम्प्रसारणाच्च' इति पूर्वरूपमिति भावः । यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य सम्प्रसारणे पूर्वरूपे च इयजतुरिति प्राप्ते । वचिस्वपि ॥ वचिस्वपीति इका निर्देशः । सौत्रः सम्प्रसारणाभावः । आदिशब्दो यजिनैव सम्वध्द्यते, न तु वचिस्वपिभ्याम्, तथा सति हि वच्यादेः स्वप्यादेर्यजादेश्चेत्यर्थः स्यात् । तथा सति पृथक्स्वपिग्रहणं व्यर्थं स्यात् । अदादिगणे लुग्विकरणे 'वच परिभाषणे' इत्यारभ्य षष्टस्य ‘ञि ष्वप शये' इत्यस्य वच्यादिग्रहणेनैव सिद्धेः । तदाह । वचिस्वप्योर्यजादीनाञ्चेति ॥ ननु यज् अतुस् इति स्थिते द्वित्वात्परत्वात्सम्प्रसारणे कृते 'विप्रतिषेधे यद्बाधित तद्बाधितमव' इति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्क्याह । पुनःप्रसङ्गेति । ईजतुरिति ॥ यज् अनुस् इति