पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६९
बालमनोरमा ।

पेचे । पक्ता । पक्षीष्ट । षच ९९७ समवाये । सचति । सचते । भज ९९८ सेवायाम् । बभाज । भेजतुः । भेजुः । भेजिथ-बभक्थ । भक्ता । भक्ष्यति - भक्ष्यते । अभाक्षीत् । अभक्त । रञ्ज ९९९ रागे । नलोपः । रजति-रजते । रज्यात् । रङ्क्षीष्ट । अराङ्क्षीत् । अराङ्क्ताम् । अरङ्क्त । शप १००० आक्रोशे । आक्रोशो विरुद्धानुद्ध्यानम् । शशाप-शेपे । अशाप्सीत्-अशप्त । त्विष १००१ दीप्तौ । त्वेषति-त्वेषते । तित्विषे । त्वेष्टा । त्वेक्ष्यति-त्वेक्ष्यते ।


लोपौ । अनिट्पक्षे तु 'चोः कुः' इति भावः । पेचथुः । पेच । पपाच-पपच । पेचिव । पेचिम । क्रादिनियमादिट् । पेचे इति ॥ पेचाते । पेचिरे । पचिषे । पेचाथे । पेचिध्वे । पेचे । पेचिवहे । पेचिमहे । क्रादिनियमादिट् । पक्तेति ॥ तासि 'चोः कुः' पक्ष्यति । पक्ष्यते । पचतु । पचताम् । अपचत् । अपचत । पचेत् । पक्षीष्टेति ॥ आशीर्लिङि तडि सीयुटि 'चोः कुः' षत्वम् । अपाक्षीत् । अपक्त । अपक्षाताम् । अपक्ष्यत् । अपक्ष्यत । षचधातुः षोपदेशः । तदाह । सचति-सचते इति ॥ सेडयम् । ससाच । सेचतुः । सेचुः । सेचिथ । सेचथुः । सेच । ससाच-ससच । सेचिव । सेचिम । सेचे । सेचिषे । सेचिवहे । सेचिमहे । सच्यात् । सचिषीष्ट । असाचीत्-असचीत् । असचिष्ट । भजधातुरनिट् । भजति । किति लिटि वैरूप्यापादकादेशादित्वात् 'अत एक हल्मध्द्ये' इत्यप्राप्तौ ‘तॄ फल' इत्येत्त्वाभ्यासलोपौ । तदाह । भेजतुरिति ॥ भारद्वाजनियमात्थलि वेट् । तदाह । भेजिथ-बभक्थेति ॥ इट्पक्षे ‘थलि च सेटि' इत्येत्त्वाभ्यासलोपौ इति भावः । भेजिव । भेजिम । क्रादिनियमादिट् । भेजे । भजिषे । भेजिवहे । भक्तेत्यादि सुगमम् । रञ्ज रागे इति ॥ नोपधोऽयम् । कृतानुस्वारपरसवर्णनिर्देशः । अनिडयम् । शप पित्त्वेन डित्त्वाभावात् ‘अनिदिताम्' इत्यप्राप्तावपि ‘रञ्जेश्च' इति शपि नलोप । तदाह । रजति-रजते इति ॥ सयोगात्परत्वाल्लिटो न कित्त्वम् । ररञ्ज । ररञ्जतुः । भारद्वाजनियमात्थलि वेट् । ररञ्जिथ-ररङ्क्थ । अनिट्पक्षे जस्य कुत्वेन गः । ततोऽनुस्वारपरसवर्णञकारनिवृत्तौ गस्य चर्त्वेन कः । नस्यानुस्वारे तस्य परसवर्णो ङकार इति भावः । ररञ्जिव । ररञ्जिम । क्रादिनियमादिट् । रङ्क्ता । रङ्क्ष्यति । रङ्क्ष्यते । रजतु । रजताम् । अरजत् । अरजत । रजेत् । आशीर्लिङि यासुट कित्त्वात् ‘अनिदिताम्' इति नलोपः । तदाह । रज्यादिति । रङ्क्षीष्टेति ॥ आत्मनेपदे लिडः सयुटि जस्य कुत्वेन गः तत परसवर्णसम्पन्नञकारनिवृत्ति गस्य कः नस्य परसवर्णेन ङः षत्वमिति भावः । अराङ्क्षीदिति ॥ सिचि हलन्तलक्षणवृद्धौ कुत्वादि पूर्ववत् । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तते इति भाष्ये स्पष्टम् । अराङ्क्तामिति ॥ 'झलो झलि' इति सलोपः । कुत्वादि पूर्ववत् । अरङ्क्तेति ॥ लुडस्तडि प्रथमपुरुषैकवचने ‘झलो झलि' इति सलोपे कुत्वादि । शप आक्रोशे इति ॥ अनिडयम् । भारद्वाजनियमात्थलि वेट् । वमादौ तु क्रादिनियमादिट् । अशाप्सीदिति ॥ हलन्तलक्षणा वृद्धिः । अशप्तेति ॥ 'झलो झलि’ इति सलोपः । अशप्साताम् । त्विषधातुरनिट् । शपि लघूपधगुणः । तदाह । त्वेषति-त्वेषते इति ॥ तित्वेष। तित्विषतुः । तित्विषुः।