पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
[भ्वादि
सिध्दान्तकौमुदीसहिता


हिथ । मेढा । मेक्ष्यति । अमिक्षत् । कित ९९३ निवासे रोगापनयने च । चिकित्सति । संशये प्रायेण विपूर्वः । 'विचिकित्सा तु संशयः' इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य 'चिकित्सते' इत्यादि कश्चिदुदाजहार । निवासे तु केतयति ।

दान ९९४ खण्डने । शान ९९५ तेजने । इतो वहत्यन्ताः स्वरितेतः । दीदांसति-दीदांसते । शीशांसति-शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति । शानयति । डु पचप् ९९६ पाके । पचति-पचते । पेचिथ-पपक्थ ।


सस्य षः इति भावः । अधाक्षीः । अदाग्धम् । अदाग्ध । अधाक्षम् । अधाक्ष्व । अधाक्ष्म । अधक्ष्यत् । मिह सेचने इति ॥ अनिट् । मेहति । मिमेह । मिमिहतुः । मिमिहुः । अजन्ताकारवत्त्वाभावात् क्रादिनियमान्नित्यमिट् । तदाह । मिमेहिथेति ॥ मिमिहथुः । मिमिह । मिमेह । मिमिहिव । मिमिहिम । मेढेति ॥ तासि ढत्वधत्वष्टुत्वढलोपाः । मेक्ष्यतीति ॥ हस्य ढः तस्य कः सस्य षः । मेहतु । अमेहत् । मेहेत् । मिह्यात् । लुडि ‘शल इगुपधात्' इति क्सः । कित्त्वान्न गुण: । हस्य ढः तस्य कः सस्य षः । तदाह । अमिक्षदिति ॥ अमेक्षयत् । कित निवासे रोगापनयने चेति ॥ परस्मैपदिषु पाठात् अयं परस्मैपदी । अर्थद्वयमात्रमत्र निर्दिष्टम् । अर्थनिर्देशस्य उपलक्षणत्वात् अर्थीन्तरेषु वृत्तिः । तत्र 'कितेव्यीधिप्रतीकारे निग्रहे अपनयने नाशने संशये च इति निबद्धेष्वर्थेषु 'गुप्तिज्किद्भ्यः सन्' इति सन्विहितः । तदाह । चिकित्सति इति ॥ ‘सन्यत’ इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सन्नन्त तस्माल्लटि शपि चिकित्सतीति रूपम् । अस्य सन् ‘धातोः' इति विहितत्वाभावादनार्धधातुकत्वान्न लघूपधगुणः नापि इडागम इति प्रागुक्तम् । 'चिकित्साञ्चकार' इत्यादि सुगम जुगुप्सतिवत् । संशये इत्यादि व्यक्तम् । निवासे त्विति ॥ व्याधिप्रतीकाराद्यर्थपञ्चकादर्थान्तरे चुरादित्वस्याक्तत्वादिति भावः । दान खण्डने। शान तेजने इति ॥ तेजनम् तीक्ष्णीकरणम् । इतः इति ॥ ‘दान खण्डने' इत्यारभ्य ‘वह प्रापणे' इत्येतत्पर्यन्ताः स्वरितेत्यर्थः । तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे शानधातुस्तु निशनि वर्तते तदा ‘मान् बध दान् शान्’ इति सनि ‘सन्यडोः' इति द्वित्वे अभ्यासह्रस्वे तस्य ‘सन्यत:’ इति इत्त्वे तस्य ‘मान् बध' इति दीर्घे सति नकारस्यानुस्वारे दीदांसशीशांसाभ्यां लटि स्वरितानुबन्धस्य केवलयोरचरितार्थत्वात् कर्तृगे फले तडि शपि दीदांसते शीशासते इति रूपम् । परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति इति रूपम् । एवं शीशांसतीति । तीक्ष्णीकरोतीत्यर्थः । तदाह । दीदांसते इत्यादि ॥ अर्थविशेषे इति ॥ आर्जवे निशाने चाथे सनित्यर्थः । अन्यत्रेति ॥ आर्जवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्यर्थः । अर्थान्तरे अनुबन्धकाश्चुरादयः इत्युक्तेरिति भावः । डु पचप् पाके इति ॥ डुः षकारः चकारादकारश्च इत् । स्वरितेत्त्वादुभयपदी । तदाह । पचति-पचते इति ॥ पपाच । पेचतुः । पेचुः । भारद्वाजनियमात्थलि वेट् । तदाह । पेचिथ-पपक्थेति ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यास-