पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६५
बालमनोरमा ।

षः स्यात् । आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्विषये । निष्टपति । त्यज ९८६ हानौ । तत्यजिथ-तत्यक्थ । त्यक्ता । अत्याक्षीत् । षञ्ज ९८७ सङ्गे । 'दंशसञ्जस्वञ्जां शपि' (सू २३९६) इति नलोपः । सजति । सङ्क्ता । दृशिर् ९८८ प्रेक्षणे । पश्यति ।

२४०४ । विभाषा सृजिदृशोः । (७-२-६५)

आभ्यां थल इड्वा ।

२४०५ । सृजिदृशोर्झल्यमकिति । (६-१-५८)


इत्यधिकारादिति भावः । निस सकारस्य षः स्यात् तपधातौ परत इति यावत् । अनासेवने इत्येतद्व्याख्यास्यन् आसेवनशब्द व्याचष्टे । पौनःपुन्यमिति ॥ आसेवनशब्देन सह नञ्समास इत्यभिप्रेत्याह । ततोऽन्यस्मिन्विषये इति ॥ आदेशत्वाभावात् पदान्तत्वाच्च अप्राप्ते वचनम् । निष्टपतीति ॥ निष्कृष्य तपतीत्यर्थः । निसस्सस्य षत्वे तकारस्य ष्टुत्वेन ट । आसेवने तु न षत्वम् । त्यज हानाविति ॥ हानिरुत्सर्गः । अयमनिट् । त्यजति । तत्याज । तत्यजतुः । तत्यजुः । सयुक्तहल्मध्द्यस्थत्वादेत्त्वाभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेट् । तदाह । तत्यजिथ-तत्यक्थेति ॥ इडभावे चो कुरिति भावः । त्यक्तेति ॥ त्यक्ष्यति । त्यजतु । अत्यजत् । त्यजेत् । त्यज्यात् । अत्याक्षीदिति ॥ हलन्तलक्षणा वृद्धिरिति भावः । अत्यक्ष्यत् । षञ्ज सङ्गे इति ॥ षोपदेशोऽयमनिट् नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाभावात्तस्मिन्परे 'अनिदिताम्’ इति नलोपाप्रवृत्तेराह । दंशसञ्जेति । नलोपः इति ॥ अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः । सजतीति ॥ लिटि तु ससञ्ज । अतुसादौ तु कित्त्वान्न लोपः । ससजतु । ससजु । थलि भारद्वाजनियमाद्वेट् । ससञ्जिथ-ससङ्क्थ । इडभावे जस्य कुत्वेन गकारे तस्य चर्त्वे सति अनुस्वारपरसवर्णसम्पन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परे नकारस्य परसवर्णो डकारः । ससजथु । ससज । ससञ्ज । ससजिव । ससजिम । क्रादिनियमादिट् । सङ्क्तेति ॥ तासि जस्य कुत्वेन गकारे तस्य चर्त्वे सति ञस्य निवृत्तौ नस्य डकार इति भावः । सङ्क्ष्यति । सजतु । असजत् । सजेत् । सज्यात् । असाङ्क्षीत् । हलन्तत्वाद्वृद्धिः । असड्क्ष्यत् । दृशिर् प्रेक्षणे इति ॥ इरित् । अनिट् च । पश्यतीति ॥ शिति ‘पाघ्राध्मा' इति पश्यादेश इति भावः । ददर्श । ददृशतुः । ददृशुः । थलि तु क्रादिनियमान्नित्यमिट् प्राप्त । अजन्ताकारवत्त्वाभावात् ‘अचस्तास्वत्’ इति ‘उपदेशे अत्वत' इति निषेधस्य चाप्राप्ते ॠदन्तत्वाभावेन भारद्वाजनियमस्याप्रसक्ते । तत्राह । विभाषा सृजि ॥ पञ्चम्यर्थे षष्ठी । ‘गमेरिट्’ इत्यतः इडिति ‘अचस्तास्वत्’ इत्यतः थलीति चानुवर्तते । तदाह । आभ्यामिति ॥ इडभावपक्षे 'अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते । सृजिदृशोः ॥ अम् अकिति इति च्छेदः । नित्यार्थमिदम् ।