पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
[भ्वादि
सिध्दान्तकौमुदीसहिता


अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ-ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ।

२४०६ । ऋदृशोऽङि गुणः । (७-४-१६)

ॠवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ।

२४०७ । न दृशः । (३-१-४७)

दृशश्च्लेः क्सो न । अद्राक्षीत् । दंश ९८९ दशने । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एव निपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । 'दंशसञ्ज–’ (सू २३९६) इति


दद्रष्ठेति ॥ ददृश थ इति स्थिते इडभावपक्षे अमागमे ॠकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इट्पक्षे त्वाह । ददर्शिथेति ॥ अझलादित्वादम् नेति भावः । द्रष्टेति ॥ तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति ॥ अमागमे शस्य षत्वे षढोरिति कत्वे सस्य ष इति भावः । पश्यतु । अपश्यत् । पश्येत् । आशीर्लिङि आह । दृश्यादिति ॥ अझलादित्वादम् नेति भावः । लुडि विशेषमाह । इरित्त्वादङ् वेति ॥ अत्र अडपक्षे गुणनिषेधे प्राप्ते । ऋदृशोऽङि ॥ ॠ इत्यङ्गविशेषणत्वात् तदन्तविधिः । तदाह । ऋवर्णान्तानामिति । अङभावे इति ॥ अङभावपक्षे ‘शल इगुपधात्' इति क्सादेशे प्राप्ते सतीत्यर्थः । न दृशः ॥ 'च्लेः सिच' इत्यत च्लेरिति ‘शल इगुपधात्' इत्यतः क्स इति चानुवर्तते । तदाह । दृशश्च्लेः क्सो नेति ॥ क्सादेशे तु अदृक्षदिति स्यादिति भावः । अद्राक्षीदिति ॥ सिचि अमागमे ॠकारस्य यणि अकारस्य हलन्तलक्षणवृद्धौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः । अद्रक्ष्यत् । दंश दशने इति ॥ अयमनिट् नोपधश्च कृतानुस्वारनिर्देश । दंष्ट्राव्यापारः इति ॥ हनुमूलगताः स्थृलदन्ताः दंष्ट्राः तद्व्यापारः क्षतक्रियादिरूपः इत्यर्थः । ननु दंशधातोर्ल्युटि दशनशब्दः तत्र ‘अनिदिताम्' इति नकारस्य लोपो न सम्भवति ल्युट क्डित्त्वाभावात् । दंशसञ्जेत्यपि नस्य लोपो न सम्भवति । तस्य शप्येव प्रवृत्ते । तथाच दशन इत्यर्थनिर्देश कथमित्यत आह । पृषोदरादित्वादिति । अत एवेति ॥ दशनशब्दनिदेशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः । तेषामपीति ॥ निपातनान्नकारलोप इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्य न तु धातुपाठे दश दंशने इत्यर्थनिर्देशे । विनिगमनाविरहमाशङ्क्याह । अर्थनिर्देशस्याधुनिकत्वादिति ॥ सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः । क्वचिदेव धातुष्वर्थनिर्देश पाणिनीय इति भूधातौ निरूपितम् । अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वात् 'अनिदिताम्’ इति नलोपाप्रवृत्तेराह । दंशसञ्जेति । नलोपः