पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
[भ्वादि
सिध्दान्तकौमुदीसहिता

गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । 'अनङि' इति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ।

२४०२ । अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । (६-१-५९)

उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता-सर्प्ता । स्रप्स्यति-सर्प्स्यति । असृपत् । यम ९८४ उपरमे । यच्छति । येमिथ-ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् । तप ९८५ सन्तापे । तप्ता । अताप्सीत् ।

२४०३ । निसस्तपतावनासेवने । (८-३-१०२)


तदादिविधिः । तदाह । गमेः परस्येत्यादिना ॥ परस्मैपदेष्वित्यस्य आत्मनेपदाभावे इत्यर्थः । एवञ्च सञ्जिगमिषितेति तृचि इट् सिध्द्यति । गमिष्यतीति ॥ गन्छतु । अगच्छत् । गच्छेत् । गम्यात् । लुडि विशेषमाह । लृदित्त्वादङिति ॥ 'गमहन' इति उपधालोपो नेत्याह । अनङि इति पर्युदासादिति । अगमदिति ॥ लृङि अगमिष्यत् । सर्पतीति ॥ शपि ॠकारस्य लघूपधगुणः रपरत्वम् । ससर्पेति ॥ ससृपतुः । ससृपुः । थलि क्रादिनियमान्नित्यमिट् । अजन्तत्वाभावादकारान्तत्वाभावाच्च नेण्निषेध । ससर्पिथ । ससृपथुः । ससृप । ससर्प । ससृपिव। ससृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते । अनुदात्तस्य च ॥ 'सृजिदृशोः' इत्यतः झल्यमकितीति ‘आदेच' इत्यतः उपदेशे इति चानुवर्तते । तदाह । उपदेशेऽनुदात्तः इत्यादिना ॥ मित्त्वादन्त्यादचः परः । उपदेशे किम् । स्रप्तुम् । तुमुनि परे 'ञ्नित्यादिर्नित्यम्’ इत्युदात्तोऽयम् । अथापि उपदेशे अनुदात्तत्वादम्भवत्येव । अकितीति किम् । क्तप्रत्यये सृप्तः । स्रप्तेति ॥ सृप्धातोर्लुटि तासि अमागमे ॠकारस्य यणिति भावः । सर्प्तेति ॥ अमभावे लघूपधगुणे रपरत्वमिति भावः । एवं स्रप्स्यति - सर्प्स्यतीति । सर्पतु । असर्पत् । सर्पेत् । सृप्यात् । असृपदिति ॥ लृदित्वात् च्लेरिडि सति कित्त्वान्न गुण इति भावः । अस्रप्स्यत्-असर्प्स्यत् । यम उपरमे इति ॥ उपरमो विरमणम् । अनिडयम् । यच्छतीति ॥ 'इषुगमियमाम्' इति शपि छः । ययाम । येमतुः । येमुः । थलि भारद्वाजनियमादिट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ । तदाह । येमिथययन्थेति ॥ इडभावे रूपम् । येमथुः । येम । ययाम-ययम। येमिव । येमिम । क्रादिनियमादिट् । यन्तेति ॥ यस्यति । यन्छतु । अयच्छत् । यच्छेत् । यस्यात् । अयसीत् । यमरमेति इट्सकौ । इट ईटीति सिज्लोपः । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयस्यत् । तप सन्तापे इति ॥ अनिडयम् । तपति । तताप । तेपतुः । तेपुः । तेपिथ-ततप्थ । तेपथुः । तेप । तताप-ततप । तेपिव । तेपिम । तप्तेति ॥ तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीदिति ॥ हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ ॥ शेषपूरणेन सूत्र व्याचष्टे । षः स्यादिति ॥ अपदान्तस्य मूर्धन्य