पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६३
बालमनोरमा ।

यभ ९८० मैथुने । येभिथ-ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् । णम ९८१ प्रह्वत्वे शब्दे च । नेमिथ-ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् । गम्लृ ९८२ स्पृप्लृ ९८३ गतौ ।

२४०० । इषुगामियमां छः । (७-३-७७ )

एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ-जगन्थ । गन्ता ।

२४०१ । गमेरिट् परस्मैपदेषु । (७-२-५८)


कित्त्वेऽपि 'थलि च सेटि’ इत्येत्वाभ्यासलोपं मत्वा आह । येभिथेति । ययब्धेति ॥ थलि इडभावपक्षे पित्त्वेनाकित्त्वादेत्त्वाभ्यासलोपाभावे ययभ् थ इति स्थिते 'झषस्तथो' इति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः । येभ । ययाभ-ययभ । क्रादिनियमादिट् । येभिव । येभिम । यब्धेति ॥ लुटि तासि तकारस्य 'झषस्तथोः' इति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति ॥ स्ये भस्य चर्त्वेन षः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति ॥ हलन्तलक्षणा वृद्धिरिति भावः । अयप्स्यत् । णम प्रह्वत्वे इति ॥ अनिडय णोपदेशश्च । केचित्त्विम धातुमुदित पठन्ति । तत्तु प्रामादिकम् । तथा सति ‘उदितो वा' इति क्त्वायामिड्विकल्पस्य ‘यस्य विभाषा' इति निष्ठायामिटश्चापत्ते । नमति । ननाम । नेमतुः । नेमुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाकित्त्वेऽपि ‘थलि च सेटि' इत्येत्त्वाभ्यासलोप मत्वा आह । नेमिथ-ननन्थेति ॥ इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाभावे रूपम् । नेमथुः । नेम । ननाम-ननम । नेमिव । नेमिम । क्रादिनियमादिट् । नन्तेति ॥ मस्यानुस्वारपरसवर्णौ । नस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति ॥ 'यमरम' इति सगिति भावः । अनस्यत् । गम्लृ सृप्लृ गताविति ॥ अनिटौ । सृपिरषोपदेश । इषुगमि । शितीति ॥ 'ष्ठिवुक्लमुचमाम्' इत्यतः तदनुवृत्तेरिति भावः । उदिन्निर्देशात्तौदादिकस्य इषेर्ग्रहणम् । अत्राचीत्यनुवर्त्य अजादौ शितीत्याश्रित्य इष्यति, इष्णाति, इत्यत्र छत्व नेति भाष्ये स्थितम् । एवञ्चात्र सूत्रे तुदादौ च उदित्पाठः अनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति ॥ शपि मकारस्य छकारः । जग्मतुरिति ॥ 'गमहन' इत्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट् । तदाह । जगमिथ-जगन्थेति ॥ जग्मथुः । जग्म । जगाम-जगम । जग्मिव । जग्मिम । क्रादिनियमादिट् । गमेरिट् ॥ गमेरिति पञ्चमी 'सेऽसिचि' इत्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्त विशेष्यते ।