पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३९८ । वेः स्कन्देरनिष्ठायाम् । (८-३-७३)

षत्वं वा स्यात् । कृत्येवेदम् 'अनिष्ठायाम्’ इति पर्युदासात् । विष्कन्ता-विस्कन्ता । निष्ठायां तु विस्कन्नः ।

२३९९ । परेश्च । (८-३-७४)

अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागात् 'अनिष्ठायाम्' इति न संबद्ध्यते । परिष्कन्दति-परिस्कन्दति । परिस्कन्नः-परिष्कण्णः । षत्वपक्षे णत्वम् । नच पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । 'धातूपसर्गयोः कार्यमन्तरङ्गम्' इत्यभ्युपगमात् । 'पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेन' इति भाष्यम् । 'पूर्वं साधनेन---' इति मतान्तरे तु न णत्वम् ।


अस्कान्त्सम् । अस्कान्त्स्व । अस्कान्त्स्म । अस्कन्त्स्यत् । वेः स्कन्देः ॥ शेषपूरणेन सूत्र व्याचष्टे । षत्वं वा स्यादिति ॥ 'अपदान्तस्य मूर्धन्यः’ इत्यधिकारात् 'सिवादीनां वा' इत्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्यात् । अनिष्ठाया परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह । कृत्येवेदमिति ॥ पर्युदासस्य अब्राह्मणमानयेत्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्ता-विस्कन्तेति ॥ तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् । परेश्च ॥ ननु विपरिभ्या स्कन्देरनिष्ठायामित्येव सिद्धे सूत्रभेदो व्यर्थ इत्यत आह । योगेति । षत्वपक्षे इति ॥ परिष्कन् द् त इति स्थिते अनिदितामिति नलोपे 'रदाभ्याम्' इति निष्ठातकारस्य तत्पूर्वदकारस्य च नत्वे सस्यानेन षत्वपक्षे प्रथमनकारस्य रेफापेक्षया भिन्नपदस्थत्वेऽपि षात् परत्वात् णत्वे द्वितीयनकारस्य ष्टुत्वेन णत्वे परिष्कण्ण इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तक णत्वमन्तरङ्गम् । निमित्तनिमित्तिनोरेकपदस्थत्वात् । षत्वन्तु परि इत्युपसर्गात्मकपदान्तरस्थमिणन्निमित्तीकृत्य प्रवर्तमानम्बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्यासिद्धत्वात् षात्परत्वाभावात् कथं णत्वमित्याशङ्क्य निराकरोति । नचेति ॥ पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्यासिद्धत्वं यत्प्रसक्तन्तन्न शङ्क्यमित्यन्वयः । कुत इत्यत आह । धातूपसर्गयोरिति । पूर्वं धातुरिति ॥ धातुरुपसर्गेण सह युज्यते सन्ध्यादिकार्य लभते । पश्चात् धातूपसर्गकार्यप्रवृत्त्यनन्तर साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदञ्च ‘सम्प्रसारणाच्च' इत्यादिसूत्रभाष्ये स्पष्टम् । तदाह । भाष्यमिति । मतान्तरे त्विति ॥ ‘पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण’ इति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ । येभतुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेना-