सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६१
बालमनोरमा ।

इति षत्वम् । परिनिविभ्यस्तु 'सिवादीनां वा –' (सू २३५९) इति विकल्पः । एतदर्थमेव 'उपसर्गात्सुनोति-' (सू २२७०) इत्येव सिद्धे स्तुस्वञ्ज्योः 'परिनिवि--' (सू २२७५) इत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त-पर्यस्वङ्क्त । 'हद ९७७ पुरीषोत्सर्गे । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ।

अथ परस्मैपदिनः । ञि ष्विदा ९७८ अव्यक्ते शब्दे । स्कन्दिर् ९७९ गतिशोषणयोः । चस्कन्दिथ-चस्कन्त्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्त्वादङ्वा । अस्कदत्-अस्कान्त्सीत् । अस्कान्ताम् । अस्कान्त्सुः ।


निविभ्यस्त्विति ॥ परस्य स्वञ्जे इति शेष । ननु परिनिविभ्य परस्यापि स्वञ्जे ‘परिनिविभ्य सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्' इति नित्यमेव षत्वमुचितम् । ‘प्राक्सितादड्व्यवायेऽपि' इत्यटा व्यवधानेऽपि तस्य प्रवृत्तेः । 'उपसर्गात्सुनोति’ इत्यादिसूत्रे स्वञ्जेः पठितत्वेन स्वञ्जे ‘प्राक्सितात्’ इति सूत्रविषयत्वादित्यत आह । एतदर्थमेवेत्यादि । परिनिवि इति ॥ नित्यषत्वविधौ स्वञ्जिरप्युपात्त ततः 'उपसर्गात्सुनोति’ इत्येव तस्य षत्वे सिद्धे पुनरुपादान 'सिवादीनां वाड्व्यवायेऽपि' इत्युत्तरसूत्रे षत्वविकल्पविधौ अनुवृत्त्यर्थमेव सम्पद्यते । परिनिविभ्यः परस्य स्वञ्जेः 'सिवादीनां वा’ इति षत्वविकल्पार्थ पूर्वसूत्रे ‘परिनिविभ्य सेव' इत्यत्र खञ्जिग्रहणमिति पर्यवस्यतीत्यर्थः । हद पुरीषोत्सर्गे ॥ अनिडयम् । क्रादिनियमादिट् । जहदिषे । जहदिध्वे । जहदिवहे । जहदिमहे । हत्तेति ॥ लुटि तासि दस्य चर्त्वम् । अहत्तेति ॥ 'झलो झलि' इति सिज्लोपः । गुपादयोऽष्टावनुदात्तेतो गताः । अथ परस्मैपदिनः इति ॥ ‘कित निवासे’ इत्यन्ता इति शेष । ञि ष्विदेति ॥ ञि आकारश्च इत् । सेट् । स्वेदति । सिष्वेद । सिष्विदतुः । सिष्विदुः । सिष्वेदिथ । सिष्विदथुः । सिष्विद । सिष्वेद । सिष्विदिव । सिष्विदिम । स्वेदिता । स्वेदिष्यति । स्वेदतु । अस्वेदत् । स्वेदेत् । स्विद्यात् । अस्वेदीत् । अस्वेदिष्यत् । स्कन्दिरिरित् | अनिट् । भारद्वाजनियमात्थलि वेडित्याह । चस्कन्दिथ-चस्कन्त्थेति ॥ अनिट्पक्षे चस्कन् द् थ इति स्थिते 'खरि च' इति दकारस्य तकारः । चस्कन्दिव । चस्कन्दिम । स्कन्तेति ॥ लुटि तासि चर्त्वेन दस्य तः । स्कन्त्स्यतीति ॥ स्ये दस्य चर्त्वम् । स्कन्दतु । अस्कन्दत् । स्कन्देत् । आशीर्लिङि विशेषमाह । नलोपः इति ॥ इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लापः इत्यर्थः । अस्कददिति ॥ लुडि अडि सति डित्त्वान्नलोप इति भावः । अडभावे आह । अस्कान्त्सीदिति ॥ अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षूधातौ । अतोऽत्र वृद्धौ दस्य चर्त्वेन तः । अस्कान्तामिति ॥ हलन्तलक्षणवृद्धौ 'झलो झलि' इति सिज्लोपे दस्य चर्त्वम् । अस्कान्त्सुरिति ॥ उसि सिचि वृद्धौ दस्य चर्त्वम् । अस्कान्त्सीः । अस्कान्तम् । अस्कान्त