पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
[भ्वादि
सिध्दान्तकौमुदीसहिता

आरेभे । रब्धा । रप्स्यते । डु लभष् ९७५ प्राप्तौ । लभते । ष्वञ्ज ९७६ परिष्वङ्गे ।

२३९६ । दंशसञ्जस्वञ्जां शपि । (६-४-२५)

२३९७ । रञ्जेश्च । (६-४-२६)

एषां शपि नलोपः । स्वजते । परिष्वजते । 'श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वा' इति व्याकरणान्तरम् । 'देभतुः' 'सस्वजे' इति भाष्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते । 'सदेः परस्य लिटि' (सू २३६१) इति सूत्रे 'स्वञ्जेरुपसंख्यानम्' (वा ४९६८) । अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे-परिषस्वञ्जे । सस्वजिषे-सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । अस्वङ्क्त । प्रत्यष्वङ्क्त । 'प्राक्सितात्–' (सू २२७६)


राभस्ये इति ॥ अनिडयम् । राभस्य शीघ्रीभावः । आडपूर्वकस्तु प्रारम्भार्थकः । तदाह । आरभते इति । रब्धेति ॥ झपस्तथोरिति धत्वम् । भस्य जश्त्वम् । रप्स्यत इति ॥ रभताम् । अरभत । रभेत । रप्सीष्ट । अरब्ध । अरप्स्यत । डु लभषिति ॥ डुरित् । पकारश्च 'ड्वितः क्रि' । षिद्भिदादिभ्योऽड्' इति प्रयाजनम् । अनिट् । रभधातुवद्रूपाणि । ष्वञ्ज परिष्वङ्गे इति ॥ षोपदेशोऽयमनिट् । दंशसञ्ज । रञ्जेश्च ॥ व्याख्यासौकर्यार्थं सूत्रद्वयमुपात्तम् । नलापः इति ॥ नकारस्य लोप इत्यादि । ‘श्नान्नलोप’ इत्यतः तदनुवृत्तरिति भावः । परिष्वजते इति ॥ 'परिनिविभ्यः' इति षत्वमिति भावः । सयोगात्परत्वाल्लिटः कित्त्वे अप्राप्ते आह । श्रन्थीति ॥ व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्यमित्याह । देभतुरिति ॥ ‘अत एकहल्मध्ये' इति सूत्रभाष्ये देभतुः इत्युदाहृतम् । 'सदेः परस्य लिटि' इति सूत्रभाष्ये सस्वजे इत्युदाहृतम् । ततश्च एकदेशानुमत्या श्रन्थिग्रन्थीत्यादिवाक्य कृत्स्न व्याकरणान्तरस्थम्भाष्यानुमतमिति विज्ञायते इत्यर्थः । सदेरिति ॥ 'सदेः परस्य लिटि’ इति षत्वनिषधसूत्रे स्वञ्जेरपि ग्रहणमित्यर्थः । ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वन्न स्यादिति लब्धम् । तदाह । अतोऽभ्यासात् परस्येति । परिषस्वजे । परिषस्वञ्जे इति ॥ परस्येत्युक्तेरुत्तखण्डस्यैव षत्वनिषेध , नत्वभ्यासस्य कित्त्वपक्षे नलोपः । सस्वञ्जाते । सस्वजाते । सस्वञ्जिरे । सस्वजिरे । क्रादिनियमादिडित्याह । सस्वाजिषे । सस्वञ्जिषे इति ॥ सस्वञ्जाथे । सस्वजाथे । सस्वञ्जिध्वे । सस्वजिध्वे । सस्वञ्जे । सस्वजे । सस्वञ्जिवहे । सस्वजिवहे । सस्वञ्जिमहे । सस्वजिमहे । स्वङ्क्तेति ॥ स्वञ् ज् ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसम्पन्नञकारस्य निवृत्तौ नकारस्यानुस्वारे तस्य परसवर्णेन डकारे गकारस्य चर्त्वे रूपम् । एवमग्रेऽपि । स्वजेतेति ॥ 'दशसञ्ज' इति शपि नलोप इति भावः । स्वङ्क्षीष्ट । अस्वङ्क्तेति ॥ लुडि अस्वञ् ज् स् त इति स्थिते 'झलो झलि' इति सिज्लोपे कुत्वादि पूर्ववदिति भावः । ननु प्रत्यष्वङ्क्त इत्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाभावात् कथम् 'उपसर्गात्सुनोति' इति षत्वमित्यत आह । प्राक् सितादिति । परि-