सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५९
बालमनोरमा ।

तु स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरेषु त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते । जुगुप्साञ्चक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बीभत्सते । रभ ९७४ राभस्ये । आरभते ।


स्वरितेत्सु पाठादिति भावः । एते नित्यं सन्नन्ता इति ॥ एते गुप्तिजादय सप्त धातव गुपेर्निन्दायामित्यादिनिबद्धेष्वर्थेषु नित्यं सन्नन्ताः । निन्दाद्यर्थकत्वे सन् विना एषाम्प्रयोगो नास्तीत्यर्थः । अर्थान्तरेषु त्विति ॥ निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धरहिता स्सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः । चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तात्कर्तृगेऽपि फले तङ् स्यादिति भावः । नन्वेव सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरण व्यर्थम् । उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमेन निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाभावादित्यत आह । अनुबन्धस्येति ॥ गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्फलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्व विज्ञायत इति कृत्वा सन्नन्तात्तडित्यर्थः । नचैवमपि भ्वादिगणे एषाङ्गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यम् । भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः । तदुक्तम्भाष्ये । ‘गुपादिष्वनुबन्धकरणसामर्थ्यात्सन्नन्तादात्मनेपदम्’ इति । अत्र सन्नन्तादात्मनेपदमित्युक्त्या केवलानामेषा शब्विकरणानां नास्ति प्रयोग इति सूचितम् । तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यमित्यपि सूचितम् । अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात् सन्नन्तादिव ण्यन्तादपि कर्तृगे फले आत्मनेपदार्थत्वापातात्सन्नन्तादात्मनेपदमित्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तर । धातोरितीति ॥ 'आर्धधातुक शेषः' इत्यत्र धातोर्विहित प्रत्यय इति विहितविशेषणाश्रयणात् सनश्चास्य धात्वधिकारविहितत्वाभावान्नार्धधातुकत्वमित्यर्थः । तेनेति ॥ सन आर्धधातुकत्वाभावेनेत्यर्थः । जुगुप्सते इति ॥ निन्दतीत्यर्थः । गुपेः सनि अनार्धधातुकत्वादिड्गुणयोरभावे 'सन्यङोः' इति द्वित्वे हलादिशेषे अभ्यासकुत्वे जश्त्वे इति भावः । जुगुप्साञ्चक्रे इति ॥ कास्प्रत्ययादित्याम् । जुगुप्सिता । जुगुसिष्यते । जुगुप्सताम् । अजुगुप्सत । जुगुप्सेत । जुगुप्सिषीष्ट। अजुगुप्सिष्ट । अजुगुप्सिष्यत । तितिक्षते इति ॥ तीक्ष्णीकरोतीत्यर्थः । तिजे सनि द्वित्वादि । जस्य कुत्वेन ग तस्य चर्त्वेन क सस्य षत्वमिति विशेषः । मीमांसते इति ॥ विचारयतीत्यर्थः । मान्धातो सनि द्वित्वे हलादिशेषे अभ्थासह्रस्वे 'सन्यतः’ इति इत्त्वे मान्बधेत्यभ्यासदीर्घे, नश्चेत्यनुस्वारे, मीमांसधातोर्लडादीति भावः । बधधातोः सनि विशेषमाह । भष्भावः इति ॥ बकारस्य भकार इत्यर्थः । चर्त्वमिति॥। धस्य तकार इत्यर्थः । तथाच भत्सेति सन्नन्त सम्पन्नम् । बीभत्सते इति ॥ भष्त्वचर्त्वयोरसिद्धत्वात् बध् इत्यस्य द्वित्वे हलादिशेषे ‘सन्यत:’ इति इत्त्वे 'मान्बध' इति दीर्घे बीभत्सधातोर्लडादीति भावः । तदेवड्गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः । कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्रतत्रोदाहरिष्यन्ते । रभ