पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३९३ । गुप्तिज्किद्भ्यः सन् । (३-१-५)

२३९४ । मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य । (३-१-६)

सूत्रद्वयोक्तेभ्यः सन्स्यात् । मानादीनामाभ्यासस्येकारस्य दीर्घश्च । 'गुपेर्निन्दायाम्' (वा १६८७) । 'तिजेः क्षमायाम्' (वा १६८८) । 'कितेर्व्याधिप्रतीकारे' (वा १६८९ ) 'निग्रहे' 'अपनयने' 'नाशने 'संशये च' 'मानेर्जिज्ञासायाम्' (वा १६९२) 'बधेश्चित्तविकारे' (वा १६९३) । 'दानेरार्जवे' (वा १६९४) । 'शानेर्निशाने' (वा १६९५) । 'सनाद्यन्ताः--' (सू २३०४) इति धातुत्वम् ।

२३९५ । सन्यङोः । (६-१-९)

सन्नन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यथैका एवानुदात्तेतः । दानशानी


बन्धने इति ॥ एते चत्वारोऽनुदात्तेतः इति स्थितिः । गुप्तिज्किद्भ्यः । मान्व ध ॥ गुप्तिजी इह पठितौ । ‘कित निवासे’ इत्यनुपदमेव परस्मैपदिषु पठिष्यते । एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः । मानधातुर्वधधातुश्च इह पठितौ । दान खण्डने । शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्यते । एभ्यश्चतुर्भ्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्यार्थः । आभ्यासस्येति च्छेदः । अभ्यासस्य विकार आभ्यासः स च ‘सन्यत:’ इति इत्त्वमेव नतु ह्रस्व इति ‘गुणो यङ्लुको ' इति सूत्रे भाष्ये स्पष्टम् । ततश्च मान्वधदान्शानामभ्यासावयवस्य इकारस्य सन्सन्नियोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थ इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह । सूत्रद्वयेति ॥ अथ उक्तसनो वृत्तिकृताषुपनिबद्धान् अर्थविशेषानाह । गुपेर्निन्दायामित्यादिना शानेर्निशाने इत्यन्तेन ॥ अथ गोपनाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्द्या । जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते । मानेर्विचारे इत्येव वृत्तिकृत् । सन्नन्तस्य धातुकार्यप्राप्त्यर्थमाह । सनाद्यन्ताः इति सन्यङोः ॥ अवयवषष्ठ्येषा । प्रत्ययत्वात्तदन्तग्रहणम् । ‘एकाचो द्वे प्रथमस्य' इति ‘अजादेर्द्वितीयस्य' इति चाधिकृतम् । तदाह । सन्नन्तस्येत्यादिना ॥ सनि यङि च परे इति तु न व्याख्येयम् । तथा सति प्रतिपूर्वादिणः सनि अटधातोर्यङि च प्रतीपिपति, अटाट्यते, इत्यत्र प्रत्ययसहितस्य द्वित्वानापत्ते । अभ्यासकार्यमिति ॥ हलादिशेषादिकमित्यर्थः । गुपिप्रभृतयः इति ॥ कितधातुभिन्ना गुप्तिजमानवधाश्चत्वार गुपेर्निन्दायामित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः । कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादनुदात्तेदेव सन् व्याधिप्रतीकारादिपञ्चस्वेवार्थेषु सन्भागिति भावः । दानशानौ त्विति ॥ दान खण्डने, शान तेजने, इति धातू स्वारितेतावेव सन्तो आर्जवे निशाने चार्थे सन्भाजावित्यर्थः । तयोरनुपदमेव