पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५७
बालमनोरमा ।

ॠदन्तस्य धातोरङ्गस्य इत्स्यात् । 'इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा ४३७३) । तरति । 'ॠच्छत्यॄताम्' (सू २३८३) इति गुणः । 'तॄफल-' (सू २३०१) इत्येत्त्वम् । तेरतुः । तेरुः ।

२३९१ । वॄतो वा । (७-२-३८)

वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि । तरिता-तरीता । 'अलिटि' इति किम् । तेरिथ । 'हलि च' (सू ३५४) इति दीर्घ ।

२३९२ । सिचि च परस्मैपदेषु । (७-२-४०)

अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ।

अथाष्टावनुदात्तेतः । गुप ९७० गोपने । तिज ९७१ निशाने । मान ९७२ पूजायाम् । बध ९७३ बन्धने ।


विधि । अङ्गस्येत्यधिकृतम् । तदाह । ॠदन्तस्येति ॥ धातो किम् । मातॄणा । तथाच तरति, पिपर्ति, ततार, पपार, इत्यादौ ॠकारस्य परे शपि गुणवृद्धी बाधित्वा अन्तरङ्गत्वात् उत्व स्यादिति शङ्का प्राप्ता । ता परिहर्तुमाह । इत्वोत्वाभ्यामिति ॥ ल्यब्लोपे पञ्चमीद्विवचनम् । ‘ॠत इद्धातोः' इति इत्त्व ‘उदोष्ठ्यपूर्वस्य’ इति उत्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात् स्यातामिति भावः । तरतीति ॥ णलि ततार । अतुसादौ कित्त्वाद्गुणनिषेधमाशङ्क्याह । ऋच्छत्यॄतामिति ॥ ततर् अतुस् इति स्थिते अकारस्य गुणशब्देन भावितत्वात् 'न शसददवादिगुणानाम्' इति निषेधमाशङ्क्याह । तॄफलेति । तेरतुः, तेरुः, इति ॥ तेरिथ । तेरथुः । तेर । ततार-ततर । तेरिव । तेरिम । वॄतो वा ॥ वृ ॠ इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृ इति वृङ्वृञोर्ग्रहणम् । ‘आर्धधातुकस्येट्’ इत्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते । 'ग्रहोऽलिटि दीर्घः’ इत्यतः अलिटि दीर्घ इत्यनुवर्तते । तदाह । वृङ्वृञ्भ्यामित्यादि । तरिता-तरीतेति ॥ इटो दीर्घविकल्प । गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति ॥ आशीर्लिङि ङित्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे, ‘हलि च' इति दीर्घे तीर्यात् इति रूपमित्यर्थः । अतारीत्, अतारिष्टाम्, इत्यादौ ‘वॄतो वा' इति दीर्घे प्राप्ते । सिचि च । अत्रेति ॥ परस्मैपदपरके सिचि वृङ्वृञ्भ्याम् ॠदन्ताच्च परस्य इटो दीर्घो नेत्यर्थ ‘न लिडि’ इत्यतो नेत्यनुवर्तते । अतारिष्टामिति ॥ अतारिषु । अतारिषम् । अतारिष्व । अतारिष्म । अतरिष्यत् । गुप गोपने इति ॥ गोपन रक्षणम् । तिज निशाने इति ॥ निशानन्तीक्ष्णीकरणम् । मान पूजायाम् । बध