पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३८९ । स्थाघ्वोरिच्च । (१-२-१७)

अनयोरिदादेशः स्यात् सिच्च कित्स्यात् । अदित । अदिथा: । अदिषि । श्यैङ् ९६३ गतौ । श्यायते । शश्ये । प्यैङ् ९६४ वृद्धौ । प्यायते । पप्ये । प्याता । त्रैङ् ९६५ पालने । त्रायते । तत्रे । पूङ् ९६६ पवने । पवते । पुपुवे । पविता । मूङ् ९६७ बन्धने । मवते । डीङ् ९६८ विहायसा गतौ । डयते । डिड्ये । डयिता । तॄ ९६९ प्लवनतरणयोः ।

२३९० । ॠत इद्धातोः (७-१-१००)


दिग्यिवहे । दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट । लुडि सिचि अदास् त इति स्थिते । स्थाघ्वोरिच्च ॥ ‘असयोगाल्लिट्’ इत्यतः किदिति ‘हनस्सिच्’ इत्यतस्सिजिति चानुवर्तते । तदाह । अनयोरित्यादिना ॥ परस्मैपदेषु नेदं प्रवर्तते । तत्र ‘गातिस्था' इति सिचो लुका लुप्तत्वात् । अत एव लिड्सिचौ' इति सूत्रादात्मनेपदेष्विति नानुवर्तितम् । व्यावर्त्याभावात् । अदितेति ॥ इत्वे कृते ‘ह्रस्वादङ्गात्’ इति सिचो लुक । त इत्यस्य डित्त्वादिकारस्य न गुण । आतामादौ तु इत्वे कृतेऽपि सिचो न लुक । झलि परत एव लुग्विवे । सिचः कित्त्वादिकारस्य न गुणः । आदिषाताम् । आदिषत् । आदिथा । आदिषाथाम् । अदिट्वम् । अदिषीति ॥ अदिष्वहि । अदिष्महि । अदास्यत् । इत्यपि ज्ञेयम् । श्यैङ् गतौ ॥ श्यायते इति ॥ शपि आयादेशः । शिद्विपयत्वादात्वन्नेति भावः । शश्ये इति ॥ एाशि आत्वे आतो लोपः । शिश्याते । शिश्यिरे । क्रादिनियमादिट् । शिश्यिषे । शिश्याथे । शिश्यिध्वे । शिश्ये । शिश्यिवहे । शिश्यिमहे । श्याता । श्यास्यते । श्यायताम् । अश्यायत । श्यायेत । श्यासीष्ट । अश्यास्त । अश्यास्यत । प्येङ्धातुरपि श्यैडवत् । त्रैडप्येवम् । पूङ् पवने इति ॥ सेट् । ऊदन्तानामनिट्सु पर्युदासात् । पवते इति ॥ शपि गुण अवादेशः । पुपुवे इति ॥ कित्त्वाद्गुणाभावे उवड् । पुपुवाते । पुपुविरे । पुपुविषे । पुपुवाथे । पुपुविध्वे । पुपुवे । पुपुविवहे । पुपुविमहे । पविता । पविष्यते । पवताम् । अपवत । पवेत । पविषीष्ट। अपविष्ट । अपविष्यत । मूङ्धातुरप्येवम् । डीङ् विहायसा गताविति ॥ आकाशेन गमने इत्यर्थः । सेडयम् । अनिट्सु डीङ् पर्युदासात् । डयते इति ॥ शपि ईकारस्य गुणे अयादेश इति भावः । डिड्ये इति ॥ कित्त्वाद्गुणाभावे ईकारस्य यणिति भावः । डिड्याते । डिड्यिरे। डिड्यिषे । डिड्याथे । डिड्यिध्वे । डिड्ये । डिड्यिवहे । डिड्यिमहे । डयिता । डयिष्यते । डयताम् । अडयत । डयेत । डयिषीष्ट। डयिषीयास्ताम् । डयिषीरन् । डयिषीष्ठा । डयिषीयास्थाम् । डयिषीढ्वम्-डयिषीध्वम् । डयिषीय । डयिषीवहि । डयिषीमहि । अडयिष्ट । अडयिष्यत । इति स्मिडादयो डीडन्ता ङितः । तॄधातुः सेट् परस्मैपदी । अनिट्सु ॠदन्तपर्युदासात्सेट् । ॠत इद्धातोः ॥ ॠत इति धातोर्विशेषणम् । तदन्त-