पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५५
बालमनोरमा ।

'क्लुङ् इत्येके । रुङ् ९५९ गतिरेषणयोः । रेषणं हिंसा । रुरुवे । रवितासे । धृङ् ९६० अवध्वंसने । धरते । दध्रे । मेङ् ९६१ प्रणिदाने । प्रणिदानं, विनिमयः प्रत्यर्पणं च । प्रणिमयते । 'नेर्गद--' (सू २२८५) इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्रकृतेरपि ग्रहणस्येष्टत्वात् । देङ् ९६२ रक्षणे । दयते ।

२३८८ । दयतेर्दिगि लिटि । (७-४-९)

'दिग्यादेशेन द्वित्वबाधनमिष्यते' इति वृत्तिः । दिग्ये ।


पञ्चस्वभावादाभ्यन्तरप्रयत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणानुनासिक्यसाम्यात् ञकारः । प्रथमतृतीयौ तु न भवतः आनुनासिक्याभावात् । च्युडादयोऽप्युवर्णान्ता अनिटः कुङ्धातुवत् ज्ञेयाः । रुङ् गतीति ॥ सेट्कोऽयम् । 'ऊदॄदन्तैर्यौतिरुक्ष्णु' इत्यनिट्सु पर्युदासात् । तदाह । रवितासे इति ॥ धृङ्धातुरनिट् । दध्रे इति ॥ कित्त्वाद्गुणनिषेधे ॠकारस्य यण् । दध्राते । दध्रिरे । क्रादिनियमादिट् । दध्रिषे । दध्राथे । दध्रिध्वे । दध्रे । दध्रिवहे । दध्रिमहे । धर्ता । लृटि स्ये ‘ॠद्धनोः' इति इटि धरिष्यते । धरताम् । अधरत । धरेत । आशीर्लिङि सीयुटि ‘उश्च' इति कित्त्वान्न गुणः । धृषीष्ट । ‘ह्रस्वादङ्गात्’ इति सिचो लुक् । अधृत । अधृषाताम् । अधृषत । अधरिष्यत । मेङ् प्रणिदाने । णत्वमिति ॥ प्रणिदानशब्दे प्रणिमयते इत्यत्र च 'नेर्गद' इति णत्वमित्यर्थः । ननु प्राणेमयत इत्यत्र णत्वमिदन्न सम्भवति । शिद्विषये आत्वाभावेन, मारूपाभावात् । तथा प्रणिदानशब्देऽपि णत्व न सम्भवति । तत्र देङ् कृतात्वस्य लाक्षणिकदारूपत्वात् । ‘गामादाग्रहणेष्वविशेष' इत्याश्रित्य मेडोऽपि कृतात्वस्य णत्वविधौ ग्रहणे तु मीनातिमिनोरात्त्योरात्त्वे प्रनिमाता प्रनिमास्यति इत्यत्रापि नेर्णत्वापत्तिरित्यत आह । तत्रेति ॥ तत्र 'नेर्गद’ इति णत्वविधौ । घुमेत्यस्य स्थाने घुप्रकृतिमाडिति पठित्वा तत्र प्रकृतिशब्दस्य घुमाङ्प्रकृतिपरत्वमाश्रित्य घौ माङ्धातौ घुमाप्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्डितो मेङ्धातोः कृतात्वस्यापि ग्रहणस्य भाष्यकृता इष्टत्वात् । (अभ्युपगतत्वादित्यर्थ) एवञ्च प्रणिमयते प्रणिदानमित्यत्र नाव्याप्तिः । मेङ् कृतात्वस्य माप्रकृतित्वे सति ङित्त्वात् । नापि मीनातिमिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्ति । मारूपस्य ङित्त्वाभावादिति भावः । एतच्च घुसंज्ञासूत्रे भाष्ये स्थितम् । ममे । ममाते । ममिरे । क्रादिनियमादिट् । ममिषे । ममाथे । ममिध्वे । ममे । ममिवहे । ममिमहे । माता । मास्यते । मयताम् । अमयत । मयेत । मासीष्ट । अमास्त । अमास्यत । देङ्धातुर्मेङ्वत् । दयतेर्दिगि ॥ दिगीति लुप्तप्रथमाकम् । देङ्धातोः दिगि इत्यादेश स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदिग्ये इत्यादि स्यादित्यत आह । दिग्यादेशेनेति ॥ एतच्च भाष्ये स्पष्टम् । वृत्तिरिति ॥ भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे । दिग्याथे । दिग्यिध्वे । दिग्ये ।