पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
[भ्वादि
सिध्दान्तकौमुदीसहिता

(सू २४६१) इति सूत्रे इङादेशम्यैव गाडो ग्रहणं न त्वस्य । तेनाङित्त्वात् 'घुमास्था–' (२४६२) इतीत्त्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादय: । फले तु न भेदः । कुङ् ९५१ घुङ् ९५२ उङ् ९५३ ङुङ् ९५४ शब्दे । अन्ये तु 'उङ् कुङ् खुङ् गुङ् घुङ् ङुङ्' इत्याहुः । कवते । चुकुवे । घवते । अवते । ऊवे । वर्णादाङ्गं वलीयः (प ५६) इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । ञुङुवे । ङोता । च्युङ् ९५५ ज्युङ् ९५६ प्रुङ् ९५७ प्लुङ् ९५८ गतौ ।


सियुटि सलोपे ‘आद्गुण’ इति भावः । गेरन्निति ॥ झस्य रन्भावे गा अ रन् इति स्थिते सवर्णदीर्घे सियुटि सलोपे यलोपे ‘आद्गुण’ इति भावः । गेथा । गेयाथाम् । गेध्वम् । गेय । गेवहि । गेमहि । आशीर्लिङि आह । गासीष्टेति ॥ गासीरन् । गासीष्ठाः । गासीयास्थाम् । गासीध्वम् । गासीय । गासीवहि । गासीमहि । ननु गासीष्टेत्यादौ 'गाङ्कुटादिभ्योऽञ्णिन्ङित् । इति ञ्णिद्भिन्नप्रत्ययस्य ङित्त्वविधानेन सीयुङागमविशिष्टप्रत्ययस्य ङित्त्वात् 'घुमास्थागापाजहातिसा हलि’ इति हलादौ क्ङिति विहितमीत्त्व स्यादित्यत आह । गाङ्कुटादिभ्यः इति सूत्रे इति ॥ इङ् इत्यनुवृत्तौ ‘गाङ् लिटि' इति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे ग्रहण, नत्वस्य गाधातोरित्यर्थः । एतच्च ‘गाङ् लिटि’ इति सूत्रे भाष्ये स्पष्टम् । तेनेति ॥ गाङ्कुटादिसूत्रे प्रकृतस्य गाधातोरग्रहणेनेत्यर्थः । लुङ्याह । अगास्तेति ॥ अगासाताम् । अगासत । अगास्था । अगासाथाम् । अगाध्वम् । अगासि । अगास्वहि । अगास्महि । अगास्यत । आदादिकोऽयमिति ॥ ततश्च ‘अदिप्रभृतिभ्यः शपः’ इति शपो लुगिति भावः । फले तु न भेदः इति ॥ शपो लुकि सति, गाते, इत्याद्येव रूपम् । तस्मिन्नसत्यपि गा अ ते इत्यादौ सवर्णदीर्घे सति तदेव रूपमिति न रूपभेद इत्यर्थः । कुङ् घुङ् उङ् ङुङ् शब्दे इति ॥ चत्वारोऽपि ङितः । आद्यद्वितीयचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः । तृतीयस्तु केवलोवर्ण: । अन्ये त्विति ॥ आद्यः केवलोवर्णो ङित् । इतरे तु पञ्च क्रमेण कवर्गाद्या: । तत्र कुङ्धातोरुदाहरति । कवते इति ॥ लिटि अजादौ कित्त्वाद्गुणाभावे उवङ् । तदाह । चुकुवे इति ॥ चुकुवाते । चुकुविरे । क्रादिनियमादिट् । चुकुविषे । चुकुवाथे । चुकुविध्वे । चुकुवे । चुकुविवहे । चुकुविमहे । कोता । कोष्यते । कवताम् । अकवत् । कवेत् । कोपीष्ट । अकोष्ट । अकोष्यत । एव खवते इत्यादि । उङ्धातोराह । अवते इति । ऊवे इति ॥ उ ऊ ए इति स्थिते द्वितीयस्य उवर्णस्य उवङि कृते सवर्णदीर्घ इति भावः । ननु उवङ् बहिर्भूतप्रत्ययापेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घे कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह । वार्णादिति ॥ ऊवाते । ऊविरे । क्रादिनियमादिट् । ऊविषे । ऊवाथे। ऊविध्वे । ऊवे । ऊविवहे । ऊविमहे । ओता, ओष्यते इति ॥ आवत । अवेत । ओषीष्ट । औष्ट । औष्यत । इत्यपि ज्ञेयम् । ङुङ्धातोर्लटि, ङवते, इति रूपमुक्तम् । सम्प्रति लिटि रूपमाह । ञुङुवे इति ॥ ‘कुहोश्चुः’ इति ङकारस्य स्थानिनश्चुर्भवन् स्थानसाम्यस्य