सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५३
बालमनोरमा ।

द्वितीये त्वकर्मकः । ‘अद्ध्ययनात्पराजयते' । अद्ध्येतुं ग्लायतीत्यर्थः । 'विपराभ्यां जेः ' (सू २६८५ ) इति तङ् । 'पराजेरसोढः' । (सू ५८९) इत्यपादानत्वम् ।

अथ डीङन्ता डितः । ष्मिङ् ९४८ ईषद्धसने । स्मयते । सिष्मिये । सिष्मियिढ्वे । सिष्मियिध्वे । गुङ् ९४९ अव्यक्ते शब्दे । गवते जुगुवे । गाङ् ९५० गतौ । गाते । गाते । गाते । इट एत्त्वे कृते वृद्धिः । गै । लङ इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । 'गाङ्कुटादिभ्य:--'


जिधातोः परस्मैपदित्वात् पराजयत इति कथमात्मनेपदमित्यत आह । विपराभ्यामिति ॥ ननु पराजयस्य अध्द्ययनेन सश्लेषविश्लेषयोरभावात् कथम्पराजयम्प्रत्यध्ययनस्यापादानत्वमित्यत आह । पराजेरिति ॥ जयति । लिटि ‘सन्लिटोर्जे' इति कुत्वम् । जिगाय । जिग्यतुः । जिग्युः । भारद्वाजनियमात्थलि वेट् । जिगयिथ-जिगेथ । जिग्यथुः । जिग्य । जिगाय-जिगय । वमयो क्रादिनियमादिट् । जिग्यिव । जिग्यिम । जेता । जेष्यति । जयतु । अजयत् । जयेत् । जीयात् । अजैषीत् । अजैष्टाम् । अजैषु । अजैषीः । अजैष्टम् । अजैष्ट । अजैषम् । अजैष्व । अजैष्म । अजेष्यत् । इति धेडादयोऽजन्ताः परस्मैपदिनः । अथ डीङन्ता ङितः इति ॥ 'ङीड् विहायसा गतौ' इत्येतत्पर्यन्ताः डित्त्वादात्मनेपदिन इत्यर्थः । ष्मिड् ईषद्धसने । षोपदेशोऽयम् । स्मयते इति ॥ धात्वादेरिति षस्य सः । सिष्मिये इति ॥ कित्त्वाद्गुणाभावे इयङ् । आदेशसकारत्वादुत्तरखण्डे सस्य षः । सिष्मियाते । सिष्मियिरे । क्रादिनियमादिट् । सिष्मियिषे । सिष्मियाथे। ‘विभाषेट:’ इति मत्वा आह । सिष्मियिढ्वे-सिष्मियिध्वे इति ॥ स्मेता । स्मेष्यते । स्मयताम् । अस्मयत । स्मयेत । स्मेषीष्ट। अस्मेष्ट । अस्मेष्यत । गुड्-धातुरनिट् । गुणः ओकारः अवादेश इति विशेषः । गाड्धातुरनिट् । गाते इति ॥ लटस्तादेशे शपि सवर्णदीर्घे टेरेत्त्वमिति भावः । आतामि तथैव रूपमाह । गाते इति ॥ गा अ आतामिति स्थिते परत्वात् सवर्णदीर्घे अतः परस्य दीर्घाकारस्याभावात् ‘आतो डित' इति इय् न भवति । झावपि तथैव रूपमाह । गाते इति ॥ शपा सह आकारस्य सवर्णदीर्घे ‘आत्मनेपदेष्वनतः’ इति झेः अदादेशे टेरेत्वमिति भावः । गासे । गाथे । गाध्वे । लट उत्तमपुरुषैकवचने विशेषमाह । इट इति ॥ गा अ इ इति स्थिते सवर्णदीर्घे सति इट एत्वे कृते 'वृद्धिरेचि' इति वृद्धौ गै इति रूपमित्यर्थः । गावहे । गामहे । लिटि अजादौ आल्लोपः । जगे । जगाते । जगिरे । क्रादिनियमादिट् । जगिषे । जगाथे । जागध्वे । जगे । जागिवहे। जगिमहे । गाता । गास्यते । गाताम् । गाताम् । गाताम् । गास्व । गाथाम् । गाध्वम् । गै । गावहै । गामहै । अगात । अगाताम् । अगात । अगाथाः । अगाथाम् । अगाध्वम् । लङ इटीति ॥ अगा अ इ इति स्थिते टिदादेशत्वाभावादेत्वाभावे सवर्णदीर्घे आद्गुणे अगे इति रूपामित्यर्थः । अगावहि । अगामहि । गेतेति ॥ लिडस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्घे सीयुटि सलोपे यलोपे ‘आद्गुण’ इति भावः । गेयातामिति ॥ गा अ आतामिति स्थिते सवर्णदीर्घे