पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
[भ्वादि
सिध्दान्तकौमुदीसहिता

शृण्मः-शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् । ध्रु ९४३ स्थैर्ये । ध्रवति । अयं कुटादौ गत्यर्थोऽपि । दु ९४४ द्रु ९४५ गतौ । दुदोथ-दुदविथ । दुदुविव । दुद्रोथ । दुद्रुव । 'णिश्रि--' (सू २३१२) इति चङ् । अदुद्रुवत् । जि ९४६ ज्रि ९४७ अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये सकर्मकः । शत्रूञ्जयति ।


किम् । योयुवति । अत्र युधातोर्यङ्लुकि अदभ्यस्तादिति झेरदादेशे योयु अति इति स्थिते अनेकाजङ्गावयवस्य असयोगपूर्वस्य उकारस्य यण् न भवति । अत्र भाष्ये 'बहुल छन्दसि’ इत्यनुवृत्तौ ‘यडोऽचि च' इति विहितस्य यङ्लुकश्छान्दसत्वात् । 'छन्दस्युभयथा, इत्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेः हुश्नुग्रहणम्भाषायामपि क्वचित्यङ्लुक ज्ञापयतीत्युक्तम् । तथाच भाषायामपि अनेकाचः असयोगपूर्वकोकारान्ताद्योयुवतीत्यादौ युङ्लुक्सिद्धे तत्र यणभावार्थ हुश्नुग्रहणमिति फलति । ज्ञापकस्य सामान्यापेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि क्वचिद्यङ्लुक् सिध्द्यति । एतदेवाभिप्रेत्य भाष्ये 'हुश्नुग्रहणं ज्ञापयति भाषायामपि यङ्लुक् भवतीत्युक्त्वा किमेतस्य ज्ञापने प्रयोजनं, बेभिदीति चेच्छिदीति इत्येतत्सिद्धम्भवति' इत्युक्तम् । अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुक् आभ्यामेव भवति, नत्वन्यत्रेत्याहुः । भिदिच्छिद्योर्ग्रहणम्प्रदर्शनमात्रमित्यन्ये । शृण्वन्तीति ॥ शृणुथः । शृणुथेत्यपि ज्ञेयम् । 'लोपश्चास्यान्यतरस्या म्वोः' इत्यभिप्रेत्याह । शृण्वः इत्यादि ॥ शुश्राव । शुश्रुवतुः । शुश्रुवुः । थलि वमयोश्च क्रादित्वान्नित्यमिण्निषेधः । तदाह । शुश्रोथ । शुश्रुवेति ॥ शुश्रुमेत्यपि ज्ञेयम् । श्रोता । श्रोष्यति । शृणोतु-शृणुतात् । शृणुताम् । शृण्वन्तु । 'उतश्च प्रत्ययादसयोगपूर्वात्' इति हेर्लुक मत्वा आह । शृण्विति ॥ शृणुतात् । शृणुतम् । शृणुत । शृणवानीति ॥ आटः पित्त्वेन डित्त्वाभावाद्गुण इति भावः । ध्रु स्थैर्ये इति ॥ अनिट् । ध्रवति । दुध्राव । दुध्रुवतुः । दुध्रुवुः । भारद्वाजनियमात्थलि वेट् । दुध्रविथ-दुध्रोथ । दुध्रुवथुः । दुध्रुव । दुध्राव--दुध्रव । दुध्रुविव । दुध्रुविम । क्रादिनियमादिट् । ध्रोता । ध्रोष्यति । ध्रवतु । अध्रवत् । ध्रवेत् । ध्रूयात् । अध्रौषीत् । अध्रोष्यत् । दु द्रु गताविति ॥ अनिटौ । दवति । द्रवति । दुदाव । दुदुवतुः । दुदुवुः । दुद्राव । दुद्रुवतुः । दुद्रुवुः । अस्य भारद्वाजनियमात्थलि वेडित्याह । दुदोथ-दुदविथेति ॥ दुदुवथुः । दुदुव । दुदाव--दुदव । वमयोः क्रादिनियमादिडित्याह । दुदुविवेति ॥ द्वितीयस्य क्रादित्वात्थलि नित्य नेट् । तदाह । दुद्रोथेति ॥ दुद्रुवथुः । दुद्रुव । दुद्राव-दुद्रव । वमयोः क्रादित्वान्नेट् । तदाह । दुद्रुवेति ॥ दोता । द्रोता । दोष्यति । द्रोष्यति । दवतु । द्रवतु । अदवत् । अद्रवत् । दवेत् । द्रवेत् । दूयात् । द्रूयात् । अदौषीत् । चिङिति ॥ द्रुधातोरिति भावः । अदुद्रुवदिति ॥ चडीति द्वित्वम् । डित्त्वाद्गुणनिषेधे उवडिति भावः । अदोष्यत् । अद्रोष्यत् । जि ज्रि अभिभवे इति ॥ अनिट् । न्यूनीकरणमिति ॥ नीचीकरणमित्यर्थः । न्यूनीभवनमिति ॥ क्षीणबलीभवनमित्यर्थः । शत्रूञ्जयतीति ॥ नीचीकरोतीत्यर्थः । ननु