पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५१
बालमनोरमा ।

२३८५ । स्तुसुधूञ्भ्यः परस्मैपदेषु । (७-२-७२)

एभ्यः सिच इट् स्यात्परस्मैपदेषु । असावीत् । पूर्वोत्तराभ्यां ञिद्भ्यां साहचर्यात्सुनोतेरेव ग्रहणमिति पक्षे असौषीत् । श्रु ९४२ श्रवणे ।

२३८६ । श्रुवः शृ च । (३-१-७४)

श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शपोऽपवादः । श्नोर्ङित्त्वाद्धातोर्गुणो न । शृणोति । शृणुतः ।

२३८७ । हुश्नुवोः सार्वधातुके । (६-४-८७)

जुहोते: श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यणस्यादजादौ सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः-शृणुवः ।


प्रसवशब्दस्य गर्भमोचनपरत्वभ्रम वारयति । प्रसवोऽभ्यनुज्ञानमिति ॥ 'ओ प्रणयेति ब्रह्मा प्रसौति' इत्यादौ तथा दर्शनादिति भावः । षोपदेशोऽयम् । शपि उवडम्बाधित्वा परत्वात्सार्वधातुकार्धधातुकयोरिति गुण । सवति । सुषाव । अतुसादौ । कित्त्वाद्गुणाभावे उवड् । सुषुवतुः । सुषुवुः । भारद्वाजनियमात्थलि वेट् । तदाह । सुषविथ-सुषोथेति ॥ अकित्त्वाद्गुण इति भावः । सुषुवथुः । सुषुव । सुषाव-सुषव । वमयोस्तु क्रादिनियमान्नित्यमिट् । तदाह । सुषुविवेति ॥ कित्त्वाद्गुणाभावे उवड् । सोतेति ॥ सोष्यति । सवतु । असवत् । सवेत् । सूयात् । लुडि असौषीदिति प्राप्ते । स्तुसुधूञ्भ्यः ॥ 'इडत्त्यर्ति' इत्यतः इडित्यनुवर्तते । ‘अञ्जे सिचि' इत्यत. सिचीत्यनुवृत्त षष्ठ्या विपरिणम्यते । तदाह । एभ्यः सिचः इति । असावीदिति ॥ सिचि वृद्धौ ‘इट ईटि' इति सिज्लोपः । पूर्वोत्तराभ्यामिति ॥ स्तुञ्धूञ्भ्यामित्यर्थः । सुनोतेरिति ॥ ‘षूञ् अभिषवे' इति श्नुविकरणस्येत्यर्थः । असौषीदिति ॥ इडभावे 'सिचि वृद्धिः’ इति भावः । असोष्यत् । श्रु श्रवणे इति ॥ उदन्तोऽयमनिट् । श्रुवः शृ च ॥ शृ इति लुप्तप्रथमाकम् । चकारेण 'स्वादभ्यः श्नुः' इति सूत्रस्थः श्नुः समुच्चीयते । तदाह । श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति ॥ शपोऽपवादः इति ॥ अनेन शब्विषये कर्त्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोर्ङित्त्वादिति ॥ सार्वधातुकमपिदित्यनेनेति भावः । शृणोतीति ॥ तिपमाश्रित्य श्नोर्गुण । तसादीनां डित्त्वात् श्नोर्न गुणः । तदाह । शृणुतः इति ॥ शृणु अन्तीति स्थिते अन्तेः डित्त्वात् श्नोर्गुणनिषेधे सति उवडि प्राप्ते । हुश्नुवोः ॥ श्नो प्रत्ययत्वात्तदन्तग्रहणम् । 'इणो यण् ’ इत्यत. यण् इत्यनुवर्तते । 'अचि श्नु' इत्यतः अचीति सार्वधातुकविशेषणत्वात्तदादिविधिः । 'एरनेकाचः' इति सूत्र एरितिवर्जमनुवर्तते । 'ओः सुपि' इत्यतः ओरिति च षष्ठ्यन्तम् । तदाह । जुहोतेरित्यादिना ॥ असयोगपूर्वस्येति तु उकारस्य विशेषण नतु श्नुविशेषणम् । तेन आप्नुवन्तीत्यत्र यण् न । हुश्नुवोः