पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
[भ्वादि
सिध्दान्तकौमुदीसहिता

यमान्नित्यमिट् । सस्वरिव । सस्वरिम । परत्वात् 'ॠद्धनोः स्ये' (सू २३६६) इति नित्यमिट् । स्वरिष्यति । स्वर्यात् । अस्वारीत् । अस्वारिष्टाम् । अस्वार्षीत् । अस्वार्ष्टाम् । स्मृ ९३३ चिन्तायाम् । ह्वृ ९३४ संवरणे । सृ ९३५ गतौ । क्रादित्वान्नेट् । ससर्थ । ससृव । रिङ् । स्रियात् । असार्षीत् । असार्ष्टाम् ।

२३८२ । सर्तिशास्त्यर्तिभ्यश्च । (३-१-५६)

एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात् 'सर्त्यर्ती' जौहोत्यादिकावेव गृह्येते । तेन भ्वाद्योर्नाङ् । शीघ्रगतौ तु


निषेधे प्राप्ते इत्यन्वयः । आर्धधातुकस्येडित्यादिविधिकाण्डात्प्रागेव 'नेड्वशि कृति' इत्यादिप्रतिषेधकाण्डारम्भसामर्थ्यात् 'स्वरति' इति विकल्पोऽप्यनेन बाध्यते इत्यर्थः । परमपीत्यादिः प्राप्ते इत्यन्त शङ्काग्रन्थः । परिहरति । क्रादिनियमान्नित्यमिडिति ॥ प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावान् इण्निषेधः स लिटि चेत् तर्हि क्रादिभ्य एवेत्युक्तत्वादिति भावः । लुटि स्वरिता-स्वर्ता । लृटि स्ये 'स्वरति इति विकल्पन्निरस्यति । परत्वादिति ॥ स्वरतु । अस्वरत् । स्वरेत् । स्वर्यादिति ॥ आशीर्लिङि 'गुणोऽर्तिसयोगाद्योः' इति गुणः । अस्वारीदिति ॥ 'स्वराति' इति इट्पक्षे अतो ल्रान्तेति वृद्धिरिति भावः । अस्वार्षीदिति ॥ इडभावे 'सिचि वृद्धिः' इति सिचि वृद्धिभावः । स्मृ चिन्तायामिति ॥ अयमप्यनिट् । स्मरति । लिटि 'ॠतश्च' इति कित्यपि गुणः । णलि तु गुणे उपधावृद्धिः । सस्मार । सस्मरतुः । सस्मरुः । ॠदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इट् थलि नित्यनिपधः । सस्मर्थ । सस्मरथुः । सस्मर । सस्मार - सस्मर । सस्मरिव । सस्मरिम । स्मर्ता । लृटि स्ये ‘ॠद्धनोः' इति इट् । स्मरिष्यति । स्मरतु । अस्मरत् । स्मरेत् । आशीर्लिङि ‘गुणोऽर्ति’ इति गुणः । स्मर्यात् । सिचि वृद्धौ रपरत्वम् । अस्मार्षीत् । अस्मरिष्यत् । ह्वृ संवरणे इति ॥ अयमपि स्मृधातुवत् । सृ गताविति ॥ ॠदन्तोऽयमनिट् । सरति । लिटि सयोगादित्वाभावात् ॠतश्चेति गुणो न । ससार । सस्रतुः । सस्रुः । क्रादित्वान्नेडिति ॥ सृधातोः क्रादिस्थत्वादिति भावः । ससर्थेति ॥ क्रादित्वात्थल्यपि नित्यं निषेध इति भावः । सस्रथुः । सस्र । ससार-ससर । ससृव । ससृम । इत्यपि ज्ञेयम् । सर्ता । लृटि 'ॠद्धनोः' इति इट् सरिष्यति । सरतु । असरत् । सरेत् । आशीर्लिङि सयोगादित्वाभावात् 'गुणोऽर्ति' इति न गुणः । 'रिड् शयग्लिड्क्षु' इति रिडित्याह । रिङिति । स्रियादिति ॥ रीङि प्रकृते रिड्विधिसामर्थ्यान्नदीर्घ इति भावः । असार्षीदिति ॥ सिचि वृद्धौ रपरत्वम् । अत्र च्लेरडमाशङ्कितुमाह । सर्ति ॥ च्लिलुङीत्यनुवर्तते । 'णिश्रिद्रुस्रुभ्यः' इत्यतः कर्तरि चडिति । तदाह । एभ्यः इति ॥ ततश्च प्रकृते असार्षीदित्यत्र अड् स्यादिति शङ्का सूचिता । ताम्परिहरति । इह लुप्तेत्यादिना ॥ इह अड्विधौ शास्तीत्यनेन लुप्तविकरणः शासिर्गृह्यते इति निर्विवादम् । तस्य विकरणान्तराभावात् । एवञ्च