पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४९
बालमनोरमा ।

'पाघ्राध्मा' (सू २३६०) इति शिति धौरादेशः । धावति । ॠ ९३६ गतिप्रापणयोः । ऋच्छति ।

२३८३ । ऋच्छत्यॄताम् । (७-४-११)

तौदादिकस्य ऋच्छतेः ऋरधातो: ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ।

२३८४ । इडत्त्यर्तिव्ययतीनाम् । (७-२-६६)

'अद्' 'ऋ' 'व्येञ्' एभ्यस्थलो नित्यमिट् स्यात् । आरिथ ।


तत्साहचर्यात् सृधातुः ॠधातुश्च जौहोत्यादिकौ श्लुविकरणावेव गृह्येते इत्यर्थ । लुप्तविकरणत्वसाम्यादिति भावः । तेनेति ॥ लुप्तविकरणयोरेव ग्रहणेन भ्वादिगणस्थयोः सृधातुॠधात्वोरड् नेत्यर्थः । तदेव सृधातोर्गतिसामान्यवृत्तेरुक्तानि रूपाणि । यदि शीघ्रगतौ सृधातु तदा तस्य विशेषमाह । शीघ्रगतौ त्विति । धौरादेश इति ॥ धौशब्दस्य धौरिति प्रथमान्तम् । धौ इत्यौकारान्त आदेश इत्यर्थः । 'पाघ्रा' इति सूत्रे सर्तीति श्तिपा निर्देशः । लुग्विकरणनिर्देशस्तु अविवक्षित इति भावः । 'सर्तेर्वेगितायाङ्गतौ धावादेशः' इति वार्तिकमभिप्रेत्येदम् । धावतीति ॥ शपि सृधातोर्धौभावे आवादेशः । धावतु । अधावत् । धावेत् । ऋ गतिप्रापणयोः ॥ अनिट् । ‘पाघ्राध्मा' इति शिद्विषये ॠच्छादेशः । तदाह । ऋच्छतीति ॥ ननु ॠ अतुस् इति स्थिते द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे ‘अत आदेः’ इति दीर्घे आ ॠ अतुस् इति स्थिते 'असयोगात्' इति कित्त्वादुत्तरखण्डस्य गुणाभावे यणम्बाधित्वा परत्वादाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह । ॠच्छत्यॄताम् ॥ 'दयतेर्दिगि लिटि' इत्यतो लिटीति 'ॠतश्च सयोगादेर्गुण' इत्यतो गुण इति चानुवर्तते । ॠच्छति ॠ, ॠत् एषान्द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ॠकारप्रश्लेषो गम्यते । प्रश्लिष्टेन च ॠकारेण ॠधातुरेव गृह्यते । ॠवर्णान्तधातुग्रहणे 'ॠतश्च सयोगादेर्गुणः’ इत्यस्य वैयर्थ्यात् । 'ॠच्छगतीन्द्रियप्रळयमूर्तिभावेषु' इति तौदादिकस्य ॠच्छतीति श्तिपा निर्देशः । भौवादिकस्य धातोस्तु ॠग्रहणेनैव सिद्धेः । तदाह । तौदादिकस्य ऋच्छतेरित्यादिना ॥ किदर्थमपीद सूत्रम् । णलि प्राग्वदिति ॥ 'ह्वृ कौटिल्ये' इत्यत्र उक्तया रीत्या कित्सु चरितार्थेऽप्ययड्गुण 'अचो ञ्णिति' इति वृध्द्यपेक्षया परत्वात् णल्यपि भवति । ततो रपरत्वे उपधावृद्धिरित्यर्थः । आरेति ॥ ॠधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषे 'अत आदेः' इति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः । आरतुरिति ॥ पूर्ववत् द्वित्वादौ आ ॠ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते 'ॠच्छत्यॄताम्’ इति गुणे रपरत्वे सवर्णदीर्घ इति भावः । आरुरित्यप्येवम् । थलि तु क्रादिनियमप्राप्तस्य इट: 'अचस्तास्वत्' इति निषेधे ॠदन्तत्वात् भारद्वाजमतेऽपि प्राप्ते आह । इडत्त्यर्ति ॥ पञ्चम्यर्थे षष्ठी । 'अचस्तास्वत्' इत्यतः थलीत्यनुवर्तते । 'विभाषा सृजिदृशोः' इति पूर्वसूत्राद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते । तदाह । अद् ॠ इत्यादिना ॥ आर्धधातुकस्ये-