पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४७
बालमनोरमा ।

२३८० । गुणोऽर्तिसंयोगाद्योः । (७-४२९)

अर्तेः संयोगादेर्ॠदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वार्षीत् । अह्वार्ष्टाम् । स्वृ ९३२ शब्दोपतापयोः । 'स्वरति-सूति-–' (२२७९) इति वेट् । सस्वरिथ-सस्वर्थ । वमयोस्तु

२३८१ । श्र्युकः किति । (७-२-११)

श्रिञ एकाच उगन्ताच्च परयोर्गित्कितोरिण्नस्यात् । परमपि स्वरत्यादि विकल्पम्बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनि-


आह । उपधावृद्धिरिति ॥ ‘अत उपधायाः’ इत्यनेनेति शेष । जह्वर्थेति ॥ क्रादिनियमप्राप्तस्य इट. 'अचस्तास्वत्' इति 'ॠतो भारद्वाजस्य' इति च निषेधादिति भावः । जह्वरथुः । जह्वर । जह्वार—जह्वर । जह्वरिव । जह्वरिम । क्रादिनियमादिट् । ह्वरतु । अह्वरत् । ह्वरेत् । आशीर्लिङि ह्वृ यात् इति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते । गुणोऽर्ति ॥ भौवादिक जौहोत्यादिकश्च ॠधातु अर्तीत्यनेन गृह्यते । लुका निर्देशस्तु न विवक्षितः । अङ्गस्येत्यधिकृतम् । ‘रीडृतः’ इत्यत ॠत इत्यनुवर्तते । तच्च अङ्गविशेषण तदन्तविधि ॠदन्तस्याङ्गस्येति लभ्यते । सयोगादेरित्यपि तद्विशेषणम् । 'अकृत्सार्वधातुकयोः' इत्यत असार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते । ‘रिड् शयग्लिड्क्षु' इत्यत यकि लिडीति च लभ्यते । 'अयड्यि क्डिति' इत्यतः यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधि । तदाह । अर्तेरित्यादिना ॥ तथाच ह्वृ यात् इति स्थिते गुणे रपरत्वे रूपमाह । ह्वर्यादिति । अह्वार्षीदिति ॥ सिचि वृद्धि रपरत्व षत्वम् । अह्वरिष्यत् । स्वृ शब्दोपतापयेरिति ॥ अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुण । णलि तु कृते गुणे रपरत्वे उपधावृद्धि । सस्वार । सस्वरतुः । सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटः 'अचस्तास्वत्' इति ‘ॠतो भारद्वाजस्य’ इति च नित्यनिषेधे प्राप्ते आह । स्वरतिसूतीति-वेडिति । सस्वरिथ-सस्वर्थेति ॥ सस्वरथु । सस्वर । सस्वार—सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति ॥ क्रादिनियमान्नित्यमिडित्यन्वयः । अत्र इण्निषेध शङ्कितुमाह । श्र्युकः किति ॥ श्रिश्च उकश्चेति समाहारद्वन्द्वात् षष्ठी । उक् प्रत्याहार । अङ्गस्येत्यधिकृत पञ्चम्या विपरिणतम् ॠता विशेष्यते । तदन्तविधि । ‘एकाच उपदेशे' इत्यतः एकाच इत्यनुवृत्त इगन्तेऽन्वेति । 'नेड्वशिकृति’ इत्यतो नेडिति । क्डितीति सप्तमी षष्ठ्यर्थे । ग्च क्च क्कौ तौ इतौ यस्येति विग्रहः । गकारस्य चर्त्वेन निर्देश । तदाह । श्रिञ एकाचः इत्यादिना ॥ गकारप्रश्लेष किम् । भूष्णुः । ‘ग्लाजिस्थश्च ग्स्नु' इति चकाराद्भूधातोः ग्स्नु । तस्य गित्त्वादीन्न । कित्त्वे तु स्थास्नुरित्यत्र 'घुमास्था' इति ईत् स्यात् । इण्नस्यादित्यनन्तर अनेन निषेधे प्राप्ते इत्यन्वयः । नन्विय शङ्का न युज्यते । 'श्र्युकः किति' इति निषेधम्बाधित्वा परत्वात् ‘स्वरतिसूतीति’ विकल्पस्य प्राप्तेरित्यत आह । परमपीत्यादिसामर्थ्यादित्यन्तम् ॥ पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात्परमपि स्वरत्यादिविकल्पम्बाधित्वा अनेन