अघ्रात् । ध्मा ९२७ शब्दाग्निसंयोगयोः । धमति । ष्ठा ९२८ गतिनिवृत्तौ । तिष्ठति । 'स्थादिष्वभ्यासेन –’ (सू २२७७ ) इति षत्वम् । अधितष्ठौ । 'उपसर्गात्–' (सू २२७०) इति षत्वम् । अधिष्ठाता । स्थेयात् । म्ना ९२९ अभ्यासे । मनति । दाण् ९३० दाने । प्रणियच्छति । देयात् । अदात् । ह्वृ ९३१ कौटिल्ये । ह्वरति ।
२३७९ । ऋतश्च संयोगादेर्गुणः । (७-४-१०)
ॠदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदं परत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । ह्वर्ता । 'ॠद्धनोः स्ये' (सू २३६६) ह्वरिष्यति ।
धमादेशः । तदाह । धमतीति ॥ दध्मौ । दध्मतुः । दध्मुः । दध्मिथ–दध्माथ । दध्मथुः । दध्म । दध्मौ । दध्मिव । दध्मिम । ध्माता । ध्मास्यति । धमतु । अधमत् । धमेत् । ध्मायात्-ध्मेयात् । अध्मासीत् । अध्मास्यत् । ष्ठाधातुः षोपदेशः । कृतष्टुत्वनिर्देशः । शिद्विषये 'पाघ्रा' इति तिष्ठादेशः । तदाह । तिष्ठतीति ॥ तस्थौ, अधितष्ठावित्यत्र इणकवर्गाभ्यां परत्वाभावेऽपि षत्वमाह । स्थादिष्विति ॥ तस्थतुः । तस्थुः । तस्थिथ । तस्थाथ । तस्थथुः । तस्थ । तस्थौ । तस्थिव । तस्थिम । स्थाता । अधिष्ठातेत्यत्र 'सात्पदाद्योः' इति षत्वनिषेधमाशङ्क्याह । उपसर्गादिति । षत्वमिति ॥ स्थास्यति । तिष्ठतु । अतिष्ठत् । तिष्ठेत् । आशीर्लिङि सयोगादित्वेऽपि घुमास्थादेरन्यत्वाभावादेत्त्वविकल्पो न । किन्तु 'एर्लिङि' इति नित्यमेव एत्त्वम् । तदाह । स्थेयादिति ॥ 'गातिस्था' इति सिचो लुक् । अस्थात् । अस्थास्यत् । म्ना अभ्यासे इति ॥ अयमप्यनिट् । 'पाघ्रा' इति शिद्विषये मनादेशः । तदाह । मनतीति ॥ मम्नौ । मम्नतुः । मम्नुः । मम्निथ-मम्नाथ । मम्नथुः । मम्न । मम्नौ । मम्निव । मम्निम । म्नाता । म्नास्यति । मनतु । अमनत् । मनेत् । म्नायात्-म्नेयात् । अम्नासीत् । अम्नास्यत् । दाण् दाने इति ॥ अयमप्यनिट् । 'पाघ्रा' इति शिद्विषये यच्छादेशः । प्रणियच्छतीति ॥ 'नेर्गद' इति णत्वम् । ददौ । ददतुः । ददुः । ददिथ-ददाथ । ददथुः । दद । ददौ । ददिव । ददिम । दाता । दास्यति । यच्छतु । अयन्छत् । यच्छेत् । आशीर्लिङि 'एर्लिङि’ इत्येत्त्वम् मत्वा आह । देयादिति ॥ 'गातिस्था' इति सिचो लुक मत्वा आह । अदादिति । ह्वृ कौटिल्ये इति ॥ अयमप्यनिट् । ह्वरतीति ॥ शपि गुणे रपरत्वम् । ऋतश्च । लिटीति ॥ 'दयतेर्दिगि लिटि' इत्यत तदनुवृत्तेरिति भावः । ननु तिप्सिप्मिप्सु अकृत्सार्वधातुकयोरित्येव गुणे सिद्धे किमर्थमिदमित्यत आह । किदर्थमपीदमिति ॥ अतुसादिकिदर्थं णलाद्यकिदर्थञ्चेत्यर्थः । ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वात् णलि 'अचो ञ्णिति' इति वृद्धिप्रसङ्गात्कथम् णलि अयं गुण इत्यत आह । परत्वाण्णल्यपि भवतीति ॥ ‘अचो ञ्णिति’ इति वृध्द्यपेक्षया अस्य गुणस्य परत्वादित्यर्थः । तर्हि जह्वार इति कथमित्यत