पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४३
बालमनोरमा ।

एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः ।

२३७७ । यमरमनमातां सक्च । (७-२-७३)

एषां सक्स्यादेभ्यः सिच इट् च परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः । ग्लै ९०३ म्लै ९०४ हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ-जग्लाथ ।

२३७८ । वाऽन्यस्य संयोगादेः । (६-४-६८)


लुडित्यनुवर्त्तते । 'गातिस्था' इत्यतः सिचः परस्मैपदेष्विति । तदाह । एभ्यः इति ॥ 'धेट् पाने' 'घ्रा गन्धोपादाने' 'शो तनूकरणे' 'छो छेदने' ' षो अन्तकर्मणि' एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । शोप्रभृतीनाङ्कृतात्वाना निर्देश । धेट: 'गातिस्थाधुपा' इति नित्य प्राप्ते अन्येषामप्राप्ते वचनम् । अधुरिति ॥ 'उस्यपदान्तात्' इति पररूपम् । अधाः । अधातम् । अधात । अधाम् । अधाव । अधाम । सिचो लुगभावपक्षे आह । यमरम ॥ यम, रम, नम, आत्, एषां समाहारद्वन्द्वात्षष्ठीबहुवचम् । आदित्यनेन आदन्तङ्गृह्यते । तदाह । एषां सक् स्यादिति ॥ सकि ककार इत् अकार उच्चारणार्थः । कित्त्वादन्तावयवः । चकारेण 'इडत्त्यर्ति' इत्यत इडिति स्तुसुधूञ्भ्यः इत्यतः परस्मैपदेष्विति चानुकृष्यते । अञ्जेस्सिचीत्यतः सिचीति च । तच्च षष्ठ्या विपरिणम्यते । तदाह । एभ्यस्सिचः इट् चेति । अधासीदिति ॥ धातोस्सगागमः । सिच इट् । 'इट ईटि' इति सिज्लोपः । अधासिष्टामिति ॥ अपृक्तत्वाभावादीडभावान्न सिज्लोपः । सस्य षत्वे तकारस्य ष्टुत्वेन टः । अधासिषुरिति ॥ अधासीः । अधासिष्टम् । अधासिष्ट । अधासिषम् । अधासिष्व । अधासिष्म । यद्यपि अधासीदित्यत्र सगिटोर्विधिर्व्यर्थ एव । तथापि अधासिष्टामित्याद्यर्थ आत. सगिड्विधानम् । यमादीनान्तु अयसीदित्यादौ हलन्तलक्षणवृद्धेरभावार्थम् अयसिष्टामित्याद्यर्थञ्च । तदेतत् तत्तद्धातुषु स्पष्टीभविष्यति । अधास्यत् । 'ग्लै म्लै हर्षक्षये' धातुक्षयः इति ॥ बलक्षय इत्यर्थः । अनिटाविमौ । ग्लायतीति शपि आयादेशः । शिद्विषयत्वादात्त्वन्न । जग्लाविति ॥ णलि आत्त्वे 'आत औ णलः' इति औभावे वृद्धिरिति भावः । अतुसादौ द्वित्वे कृते आतो लोपः । जग्लतुः । जग्लुः । भारद्वाजनियमात्थलि वेडित्याह । जग्लिथ । जग्लाथेति ॥ इट्पक्षे आल्लोपः । जग्लथुः । जग्ल । जग्लौ । जग्लिव । जग्लिम । ग्लाता । ग्लास्यति । ग्लायपु । अग्लायत् । ग्लायेत् । आशीर्लिङि आत्त्वे कृते ग्ला यात् इति स्थिते । वाऽन्यस्य ॥ आर्धधातुक इत्यधिकृतम् । 'ऐर्लिङि' इत्यनुवर्त्तते । एरिति प्रथमान्तम् । 'आतो लोप इटि च' इत्यतः आत इत्यनुवर्तते कस्मादन्यस्येत्यपेक्षाया घुमास्थागापाजहातिसा हलीति प्रकृतत्वाल्ल-