पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
[भ्वादि
सिध्दान्तकौमुदीसहिता

घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्त्वं वा स्यादार्धधातुके किति लिङि । ग्लायात्-ग्लेयात् । अग्लासीत् । म्लायति । द्यै ९०५ न्यक्करणे । न्यक्करणं तिरस्कारः । द्रै ९०६ स्वप्ने । ध्रै ९०७ तृप्तौ । द्ध्यै ९०८ चिन्तायाम् । रै ९०९ शब्दे । स्त्यै ९१० ष्ट्यै ९११ शब्दसङ्घातयोः । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासति अतिष्ट्यपदित्यत्र षत्वम् । खै ९१२ खेदने । क्षै ९१३ जै ९१४ । षै ९१५ क्षये । क्षायति जजौ । ससौ । साता । 'घुमास्था–' (सू २४६२) इत्यत्र 'विभाषा घ्राधेट् (सू २३७६) इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य ।


भ्यते । तदाह । घुमास्थादेरित्यादिना । कितीति ॥ अनुदात्तोपदेशवनतीत्यतः तदनुवृत्तेरिति भावः । डितीति तु नानुवर्तते । लिडार्धधातुकस्य डित्त्वासम्भवात् । अग्लासीदिति ॥ यमरमेत्यादन्तत्वात् सगिटौ । अग्लासिष्टाम् । अग्लासिषुरित्यादि । अग्लास्यत् । म्लायतीति ॥ ग्लैधातोरिव रूपाणीति भावः । द्यै न्यक्करणे इति ॥ यकारमद्ध्योऽयम् । इत आरभ्य ऐकारान्तानां सयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि । 'रै शब्दे' इत्यादीनान्तु असयोगादीनाम् आशीर्लिङि 'वाऽन्यस्य सयोगादेः' इत्येत्त्व न भवति । रायादित्यादिरूपमिति विशेषः । स्त्यै ष्ट्यै इति ॥ षोपदेशेषु स्त्याधातोः पर्युदासादाद्यो न षोपदेशः । द्वितीयस्तु षोपदेशः । तकारस्य ष्टुत्वसम्पन्नटकारनिर्देशः । सत्वे कृते इति ॥ धात्वादेरिति षस्य सकारे सति निमित्तापायात् ष्टुत्वनिवृत्तिरिति भावः । तिष्ट्यासतीति ॥ ष्ट्यैधातोः कृतसत्वात् सनि आत्त्वे स्त्या स इति सन्नन्ताल्लटि तिपि शपि 'सन्यडोः' इति द्वित्वे 'शर्पूर्वाः खयः' इति सकारयकारनिवृत्तौ तास्त्यासति इति स्थिते अभ्यासह्रस्वे सन्यत इति इत्वे सकारस्य इणः परत्वादादेशसकारत्वाच्च षत्वे तिष्ट्यासतीति रूपम् । स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाभावात् षत्वं न स्यादिति भावः । अतिष्ट्यपदिति ॥ ष्ट्यैधातोः कृतसत्वात् णौ आत्त्वे 'अर्तिह्री' इति पुकि स्त्यापि इति ण्यन्तात् लुडि अडागमे तिपि इतश्च इति इकारलोपे 'णिश्रिद्रुस्त्रुभ्यः' इति ‘च्लेश्चङि’ ‘णेरनिटि’ इति णिलोपे ‘णौ चड्युपधायाः’ इति ह्रस्वे ‘चडि’ इति स्त्यप् इत्यस्य द्वित्त्वे शर्पूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्या 'सन्यतः' इति इत्वे इणः परत्वादादेशसकारत्वाच्च सस्य षत्वे तस्य ष्टुत्वे अतिष्ट्यपदिति रूपम् । स्वाभाविकसकारत्वे त्वादेशसकारत्वाभावात् षत्वन्न स्यादिति भावः । जजौ । ससाविति ॥ जैधातो पैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः । ननु ‘एर्लिङि’ इत्यत्र 'घुमास्थागापाजहातिसाम्' इत्यनुवृत्त्या सैधातोराशीर्लिङि सायादित्यत्र एत्त्व स्यात् । तथा लुडि सगिटोः असासीत् असासिष्टामित्येव इष्यते । तत्र 'विभाषा घ्राधेट्शाच्छासः' इति सिचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह । घुमास्थेत्यत्रेत्यादि । स्यतेरिति ॥ षो अन्तकर्मणि