पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
[भ्वादि
सिध्दान्तकौमुदीसहिता

त्परत्वाल्लोपे प्राप्ते 'द्विर्वचनेऽचि' (सू २२४३) इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ-दधाथ । दधिव । दधिम । धाता ।

२३७३ । दाधा घ्वदाप् । (१-१-२०)

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ।

२३७४ । एर्लिङि । (६-४-६७)

घुसंज्ञानां मास्थादीनां चैत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ।

२३७५ । विभाषा धेट्श्व्योः । (३-१-४९)

आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । ‘चङि' (सू २३१५) इति द्वित्वम् । अदधत् । अदधताम् ।

२३७६ । विभाषा घ्राधेट्शाच्छासः । (२-४-७८)


सति तस्मिन् औत्वन्न स्यात् । ननु धा अतुस् इति स्थिते द्वित्वात्परत्वादाल्लोपे सति एकाच्त्वाभावात् द्वित्वन्न स्यादित्याशङ्क्य परिहरति । द्वित्वादित्यादिना ॥ धेट्धातुरनिट् । भारद्वाजनियमात् थलि वेडित्याह । दधिथ । दधाथेति ॥ इट्पक्षे आल्लोपः । दधथुः । दध । दधौ इति सिद्धवत्कृत्याह । दधिवेति ॥ वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः । दधिमेमत्यपि ज्ञेयम् । धातेति ॥ लुटि आत्त्वे ता इति भावः । धास्यति । धयतु । अधयत् । धयेत् । आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन् घुसंज्ञां दर्शयति । दाधाघ्वदाप् ॥ दा धा घु एषां समाहारद्वन्द्वात्प्रथमैकवचनम् । दाधेत्यनेन स्वाभाविकाकारान्तयोः 'दाण् दाने' 'डुधाञ् धारणपोषणयोः' इत्यनयोः कृतात्त्वानाञ्च दोदेड्धेटा लाक्षणिकानामपि ग्रहणम् । 'गामादाग्रहणेष्वविशेषः' इति परिभाषाबलात् । तत्र दाग्रहणेन धारूपस्यापि ग्रहणात् । अतएव 'दो दद् घोः ' इत्यत्र धेण्निवृत्त्यर्थन्दाग्रहणमर्थवत् । दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः । तदाह । दारूपाः धारूपाश्चेति ॥ शब्दा इति शषः । एर्लिङि ॥ एरिति प्रथमान्तम् । आर्धधातुके इत्यधिकृतम् । तदाह । घुसंज्ञानां मास्थादीनामिति ॥ मा स्था जहाति सा एषान्द्वन्द्वात् षष्ठीबहुवचनम् । किति लिङीति ॥ दीडो युडित्यतः कितीत्यनुवृत्तेरिति भावः । डितीति नानुवर्तते । लिडार्धधातुकस्य डित्वासम्भवात् । लुडि च्ले सिचि प्राप्ते । विभाषा धेट् ॥ च्लि लुडीत्यनुवर्तते । 'णिश्रिद्रुस्रुभ्यः' इत्यतः कर्तरि चडिति च । तदाह । आभ्यामिति ॥ धेट् श्वि आभ्यामित्यर्थः । अदधदिति ॥ चडि द्वित्वे आल्लोप इति भावः । अदधताम् । अदधत् । अदध । अदधतम् । अदधत । अदधम् । अदधाव । अदधाम । चडभावपक्षे विशेषमाह । विभाषा घ्रा ॥ 'ण्यक्षत्रियार्ष' इत्यतः