पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४१
बालमनोरमा ।

२३७० । आदेच उपदेशेऽशिति । (६-१-४९)

उपदेशे एजन्तस्य धातोरात्त्वं स्यान्न तु शिति ।

२३७१ । आत औ णलः । (७-१-३४)

आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ।

२३७२ । आतो लोप इटि च । (६-४-६४)

अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वा-


टित्त्वम् । अवयवे टित्त्वस्य व्यर्थतया समुदायार्थत्वादिति हरदत्त । आदेचः । एजन्तस्य धातोरिति ॥ 'लिटि धातोः' इत्यतः धातोरित्यनुवृत्त एचा विशेष्यते । तदन्तविधिरिति भावः । न तु शितीति ॥ श् चासौ इच्चेति कर्मधारयात्सप्तमी । प्रत्ययविशेषणत्वात्तदादिविधिः । इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । 'ल्यपि च' 'न व्यो लिटि' इत्यादिपूर्वोत्तरसूत्राणाम्प्रत्ययेष्वेव प्रवृत्त्या प्रत्यये इति विशेष्यलाभः । आशितीति न पर्युदासः । तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः । ततश्च सुग्ल इत्यत्र ग्लैधातोः 'आतश्चोपसर्गे' इति कप्रत्ययो न स्यात् । कप्रत्ययनिमित्तमात्त्वम् आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् । शिति नेति प्रसज्यप्रतिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाभावात् प्रथममात्त्वे कृते कप्रत्यय सूपपाद. । शितीति बहुव्रीह्याश्रयणे ग्लैधातोर्भावे लिटि 'भावकर्मणोः' इति तडि एशि आत्त्वे आतो लोपे जग्ले इति न सिध्द्येत् । एशश्शित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् । अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः । एवञ्च पर्युदासेऽपि न क्षतिः । इत्संज्ञकशकारादिप्रत्यये विवक्षिते इत्याश्रयणेन सुग्ल इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः । उपदेशे किम् । चेता, स्तोता । धातो किम् । गोभ्याम् । 'गमेर्डो' इति डोप्रत्ययोपदेशादप्राप्तिः । उपदेशे य एच् तदन्तत्वाभावाद्नमे । न च मेडादीनामुपदेशे एजन्तत्वाभावात् कथमात्त्वमिति न शङ्क्यम् । 'उदीचाम्माड' इति निर्देशेन नानुबन्धकृतमनेजन्तत्वमिति ज्ञापनादित्यास्तान्तावत् । तथाच प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते । आत औ ॥ औ इति लुप्तप्रथमाकम् । अङ्गस्येत्यधिकृतम्पञ्चम्या विपरिणम्यते । आत इति तद्विशषणम् । तदन्तविधिः । तदाह । आदन्ताद्धातोरिति ॥ णल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथाच णल औत्वे वृद्धौ रूपमाह । दधाविति ॥ दधा अतुसिति स्थिते । आतो लोपः ॥ आर्धधातुके इत्यधिकृतम् । दीडो युडित्यतः अचि क्ङितीतिचानुवर्तते । अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः । क्ङिति अजाद्यार्धधातुके इटि च आतो लोप इति लभ्यते । फलितमाह । अजाद्योरिति ॥ इट: आर्धधातुकत्वन्तु तदवयवत्वाद्बोध्यम् । क्ङितीति च इटो न विशेषणम् । इड्ग्रहणसामर्थ्यात् । इडित्यनेन उत्तमपुरुषैकवचनम् इडागमश्च गृह्यते । अजाद्योः किम् । ग्लैधातोः कर्मणि लटि यकि ग्लायते । आर्धधातुकयोः किम् । यान्ति । वान्ति । दधौ इत्यत्र तु क्ङित्वाभावान्नाल्लोपः ।