पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३६८ । उश्च । (१-२-१२)

ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ।

२३६९ । ह्रस्वादङ्गात् । (८-२-२७)

सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् । हृञ् ८९९ हरणे । हरणं प्रापणं स्वीकारः स्तेयं नाशनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति । धृञ् ९०० धारणे । धरति । अधार्षीत् । अधृत । णीञ् ९०१ प्रापणे । निनयिथ । निनेथ । निन्यिषे ।

अथाजन्ताः परस्मैपदिनः । धेट् ९०२ पाने । धयति ।


गुणे प्राप्ते । उश्च ॥ 'लिङ्सिचावात्मनेपदेषु' इति सूत्रमनुवर्तते । 'इको झल्' इत्यतो झलिति च । तदाह । ऋवर्णादिति । भूषीष्टेति ॥ कित्त्वान्न गुण । अभार्षीदिति ॥ परस्मैपदे सिचि वृद्धौ रपरत्वम् । तडि तु अभृ स् त इति स्थिते । ह्रस्वादङ्गात् ॥ ह्रस्वान्तादित्यर्थः । सिच इति भाष्यम् । 'झलो झलि' इत्यतो झलीति 'सयोगान्तस्य लोप' इत्यतो लोप इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । सिचो लोपः स्याज्झलीति ॥ ह्रस्वात्किम् । अच्योष्ट । अङ्गात्किम् । अलाविष्टाम् । सिच किम् । द्विष्टराम् । द्विष्टमाम् । सुजन्तात्तरप्तमपौ । अभृतेति ॥ ‘उश्च' इति सिच कित्वान्न गुणः । झलीत्युक्तेः अभृषाताम् । अभृषतेत्यत्र न सिज्लोपः । अनत परत्वात् झस्य अदादेश: । अभृथाः । अभृषाथाम् । अभृढ्वम् । अभृषि । अभृष्वहि । अभृष्महि । हृधातुरनिट् । हरणञ्चतुर्विधमित्याह । प्रापणमित्यादि ॥ तद्यथा-भार हरति । प्रापयतीत्यर्थ । अश हरति । स्वीकरोतीत्यर्थः । परस्व हरति । चोरयतीत्यर्थः । पापं हरति हरते वा । नाशयतीत्यर्थः । जहार । जह्रतु: । जह्रुः । 'एकाच ' इति इण्निषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्ते 'अचस्तास्वत्' इति तन्निषेध । ॠदन्तत्वेन भारद्वाजमतेऽपि इण्निपेध एव । तदाह । जहर्थेति ॥ जह्रथुः । जह्र । जहार । जहर । इति सिद्धवत्कृत्याह । जह्रिवेति ॥ क्रादिनियमादिट् । जह्रिम । जह्रिषे । क्रादिनियमादिट् । जह्राथे । जह्रिढ्वे । जह्रिध्वे । जह्रे । जह्रिवहे । जह्निमहे । लुडादिषु भृञ इव रूपाणि । धृञ् धातुरनिट् । हृञ इव रूपाणि । णीञ् धातुरानिट् णोपदेशः । नयति । नयते । निनाय । निन्यतुः । निन्युः । क्रादिनियमाल्लिटि इट् । थलि तु 'अचस्तास्वत्' इति इण्निषेधस्य भारद्वाजनियमादिटमभिप्रेत्याह । निन्यिषे निन्याथे निन्यिढ्वे निन्यिध्वे । निन्ये । निन्यिवहे । निन्यिमहे । नेता । नेष्यति । नेष्यते । नयतु । नयताम् । अनयत् । अनयत । नयेत् । नयेत । नीयात् । नेषीष्ट । अनैषीत् । अनेष्ट । अनेष्यत् अनेष्यत । इत्यजन्ता उभयपदिनो गताः । परस्मैपदिन इति ॥ 'जि, ज्रि' अभिभवे । इत्येतर्त्पयन्ता इति शेषः । धेट् पाने इति ॥ स्तनन्धयीत्यादौ डीबर्थं