सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३९
बालमनोरमा ।

भृञ् ८९८ भरणे । भरति । बभार । बभ्रतुः । बभर्थ । बभूव । बभृषे । भर्ता ।

२३६६ । ऋद्धनोः स्ये । (७-२-७०

ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ।

२३६७ । रिङ् शयग्लिङ्क्षु । (७-४-२८)

शे यकि यादावार्धधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ।


शिश्रियुः । शिश्रयिथ । शिश्रियथु । शिश्रिय । शिश्राय । शिश्रय । शिश्रियिव । शिश्रियिम । शिश्रिये । शिश्रियाते । शिश्रियिरे । शिश्रियिषे । शिश्रियाथे । शिश्रियिढ्वे । शिश्रियिध्वे । शिश्रिये । शिश्रियिवहे । शिश्रियिमहे । श्रयितेति ॥ श्रयिष्यति । श्रयिष्यते । श्रयतु । श्रयताम् । अश्रयत् । अश्रयत । श्रयेत् । श्रयेत । श्रीयात् । श्रयिषीष्ट । लुडि विशेषमाह । णिश्रीति । आशिश्रियदिति ॥ चडीति द्वित्वम् । अशिश्रियत । अश्रयिष्यत् । अश्रयिष्यत । भृञ्धातुरनिट् । भरतीति ॥ भरते इत्यपि ज्ञेयम् । बभ्रतुरिति ॥ कित्त्वान्न गुणः । यण् । बभ्रुः । थलादौ 'एकाच.' इति नेट् । कृसृभृवृस्तुद्रुस्रुश्रुषु लिट्यपि तन्निषेधस्य प्रवृत्तेः । थलि अचस्तास्वदिति निषेधाच्च । ॠदन्तत्वेन भारद्वाजमतेऽपि थलि निषेधाच्च । तदाह । बभर्थेति ॥ बभ्रथु । बभ्र । बभार । बभर । इति सिद्धवत्कृत्याह । बभृवेति ॥ बभृम । बभ्रे । बभ्राते । बभ्रिरे । इति सिद्धवत्कृत्याह । बभृषे इति ॥ बभ्राथे । बभृढ्वे । बभ्रे । बभृवहे । बभृमहे । लृटि स्ये इण्निषेधे प्राप्ते । ऋद्धनोः ॥ ॠत् हन् अनयोर्द्वन्द्वात् पञ्चम्यर्थे षष्ठीद्विवचनम् । स्ये इति षष्ठ्यर्थे सप्तमी । आर्धधातुकस्येडित्यत इडित्यनुवर्तते । तदाह । ऋत इत्यादिना ॥ एकाच इति इण्निषेधस्यापवाद । भरिष्यतीति ॥ भरिष्यते । भरतु । भरताम् । अभरत् । अभरत । भरेत् । भरेत । आशीर्लिङि परस्मैपदे भृ यात् इति स्थिते । रिङ् शय ॥ श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् । अयङ् यि क्डितीत्यतो यीति सप्तम्यन्तमनुवृत्त लिडो विशेषणम् । तदादिविधिः । शे तु यीति नान्वेति । असम्भवात् । नापि यकि अव्यभिचारात् । अत एव अकृत्सार्वधातुकयोरित्यनुवृत्तमपि लिड एव विशेषणम् । तदाह । शे यकीत्यादिना । ऋत इति ॥ ‘रीडृत’ इत्यतः तदनुवृत्तेरिति भावः । अङ्गस्येत्यधिकृतम् । ॠत इति तद्विशेषणम् । तदन्तविधि. । ॠदन्तस्याङ्गस्येति लभ्यते । आदेशे डकार इत् । डित्त्वात् अन्तादेशः । निर्दिश्यमानपारिभाषयैव सिद्धे डकारोच्चारण, इडागमेनैव सिद्धे रेफोच्चारणञ्च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाहरणमयुक्तम् । कृते रिडि अकृत्सार्वधातुकयोरिति दीर्घप्रसङ्गादित्यत आह । रीङि प्रकृते इति ॥ कृते रिडि यदि दीर्घः स्यात्तर्हि रिड्विधिर्व्यर्थः स्यात् । रीडृत इत्येव सिद्धे. । अतो रिडि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति ॥ भ्रियास्तामित्यादि सुगमम् । आशीर्लिङि भृषीष्टेत्यत्र