पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
[भ्वादि
सिध्दान्तकौमुदीसहिता

दिड्वा । गूहिता-गोढा । गूहिष्यति-घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे क्स: । अघुक्षत् ।

२३६५ । लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । (७-३-७३)

एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । 'क्सस्याचि' (सू २३३७) इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि—अघुक्षावहि । अघुक्षामहि ।

अथाजन्ता उभयपदिनः । श्रिञ् ८९७ सेवायाम् । श्रयति-श्रयते । शिश्रियतुः । श्रयिता । 'णिश्रि–' (सू २३१२) इति चङ् । अशिश्रियत् ।


ष्टुत्वढलोपाः । जुगुहथु । जुगुह । जुगुहिषे । जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे । जुगुहिध्वे । जुघुढ्वे । जुगूह । जुगुहिव । जुगुह्व । जुगुहिम । जुगुह्म । जुगुहे । जुगुहिवहे । जुगुह्वहे । जुगुहिमहे । जुगुह्महे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह । गूहितेति ॥ इडभावे अजादिप्रत्ययाभावात् ऊत्त्वाभावे गुणे ढत्वधत्वष्टुत्वढलोपेषु रूपमाह । गोढेति ॥ लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह । गूहिष्यतीति ॥ इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह । घोक्ष्यतीति ॥ गूहिष्यते, घोक्ष्यते, इत्यप्युदाहार्यम् । गूहतु । गूहताम् । अगूहत् । अगूहत । गूहेदिति ॥ गूहेतेत्यपि ज्ञेयम् । गुह्यादिति ॥ आशीर्लिङि अजादिप्रत्ययाभावादूत्त्वन्न । कित्त्वान्न गुणः । लुडि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह । अगूहीदिति ॥ अगूहिष्टाम् । अगूहिषुरित्यादि । इडभावे क्सः इति ॥ इगुपधशलन्तादिति भावः । अघुक्षदिति ॥ ढत्वभष्भावकत्वषत्वानि । अघुक्षताम् । अधुक्षन्नित्यादि । लुडस्तडि विशेषमाह । लुग्वादुह । दन्त्ये तङीति ॥ दन्त्यादौ तडीत्यर्थः । प्रत्ययादर्शनात्सर्वादेशोऽयं लुक् । अगूढेति ॥ अगुह् स त इति स्थिते क्सस्य कित्त्वेन गुणहेतुत्वाभावादजादित्वाभावाच्च ऊत्त्वाभावे क्सलुकि अगुह् त इति स्थिते प्रक्रियान्दर्शयति । ढत्वधत्वष्टुत्वढलोपदीर्घाः इति । अघुक्षतेति ॥ क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः । अघुक्षातामिति ॥ च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाभावादूत्त्वाभावे ढत्वभष्भावकत्वषत्वेषु कृतेषु क्सस्याचीत्यन्त्यलोपे अतः परत्वाभावादातो डित इति न भवतीति भावः । अघुक्षन्तेति ॥ झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अन्त्यलोपाभावादतः परत्वाभावादात्मनेपदेष्वनत इत्यदादेशो न भवति । कृते तु झोऽन्तादेशे क्सस्यान्तलोप इति भावः । अघुक्षथाः । अघुक्षाथाम् । अघुक्षध्वम् । अघुक्षि । इति रूपाणि सिद्धवत्कृत्याह । अगुह्वहीति ॥ दन्त्यादिप्रत्ययपरत्वात् क्सस्य लुकि अजादिप्रत्ययाभावात् ऊत्त्वाभावे रूपम् । अघुक्षावहीति ॥ क्सलुगभावे ढत्वभष्भावकत्वषत्वानि । अतो दीर्घश्च । अघुक्षामहीति ॥ दन्त्यादिप्रत्ययपरत्वाभावान्न क्सलुक् । इति गूहत्यन्ताः स्वरितेतः । उभयपदिनः इति ॥ ञित्त्वादिति भावः । श्रिञ् धातुः सेट् । शिश्रियतुरिति ॥ कित्त्वान्न गुणः । इयड् ।