पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३७
बालमनोरमा ।

अबुन्दीत् । वेणृ ८७७ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति-वेणते । नान्तोऽप्ययम् । खनु ८७८ अवदारणे । खनति-खनते ।

२३६३ । गमहनजनखनघसां लोपः क्ङित्यनङि । (६-४-९८)

एषामुपधाया लोपः स्यादजादौ क्ङिति न त्वङि । चख्नतुः । 'ये विभाषा' (सू २३१९) । खायात्-खन्यात् । चीवृ ८७९ आदानसंवरणयोः । चिचीव-चिचीवे । चायृ ८८० पूजानिशामनयोः । व्यय ८८१ गतौ । अव्ययीत् । दाशृ ८८२ दाने । ददाश-ददाशे । भेषृ ८८३ भये । 'गतौ' इत्येके । भेषति-भेषते । भ्रेषृ ८८४ भ्लेषृ ८८५ गतौ । अस ८८६ गतिदीप्त्यादानेषु । असति-असते । आस-आसे । अयं षान्तोऽपि । स्पश ८८७ बाधनस्पर्शनयोः । स्पर्शनं ग्रथनम् । स्पशति-स्पशते । लष ८८८ कान्तौ । 'वा भ्राश–' (सू २३२१) इति श्यन्वा । लष्यति-लषति । लेषे । चष ८८९ भक्षणे । छष ८९० हिसायाम् । चच्छषतुः । चच्छषे । झष ८९१ आदानसंवरणयोः । भ्रक्ष ८९२ भ्लक्ष ८९३ अदने । 'भक्ष' इति मैत्रेयः । दासृ ८९४ दाने । माहृ ८९५ माने । गुहू ८९६ संवरणे ।

२३६४ । ऊदुपधाया गोहः । (६-४-८९)

गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति-गूहते । ऊदित्त्वा-


अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चेति शब्देन्दुशेखरे स्थितम् । वेणृगतीति ॥ वाद्यभाण्डस्य वादनार्थङ्ग्रहण वादित्रग्रहणम् । खनुधातुरुदित् । क्त्वायामिड्विकल्प । गमहन । उपधाया इति ॥ 'ऊदुपधायाः' इत्यतः तदनुवृत्तेरिति भाव । अजादाविति ॥ अचि श्नुधात्वित्यत अनुवृत्तस्य अचि इत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ इति भाव । क्डितीत्युक्ते चखानेत्यत्र नोपधालोप. । अनडीति किम् । अगमत् । चख्ने चख्नाते इत्यादि । व्यय गताविति ॥ अयं वित्तत्यागेऽपि । अर्थनिर्देशस्योपलक्षणत्वात् । अव्ययीदिति ॥ ह्म्यन्तेति न वृद्धिः । चष भक्षणे इति ॥ चचाष । चेषतु । छष हिंसायामिति ॥ वैरूप्यसम्पादकादेशादित्वादेत्त्वाभ्यासलोपौ न । तदाह । चच्छषतुः इति । गुहू संवरणे इति ॥ उदुपधोऽयम् । ऊदित् । ऊदुपधायाः ॥ गोह इति कृतलघूपधगुणस्य गुहेर्निर्देश । ततश्च गुणविषय एवेदम्भवति । अचि श्नुधात्वित्यतः अनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधि । तदाह । गुह उपधायाः इत्यादिना । गुणहेताविति ॥ गुणम्प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः । जुगुहुः । जुगुहे । जुगुहाते । जुगुहिरे । जुगूहिथ । जुगोढ । ढत्वधत्व