पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
[भ्वादि
सिध्दान्तकौमुदीसहिता

रुह ८५९ बीजजन्मनि प्रादुर्भावे च । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् । कस ८६० गतौ । अकासीत्-अकसीत् । वृत् । ज्वलादिगणः समाप्तः ।

अथ गूहत्यन्ताः स्वरितेतः । हिक्क ८६१ अव्यक्ते शब्दे । हिक्कति--हिक्कते । अञ्चु ८६२ गतौ याचने च । अञ्चति-अञ्चते । अचु इत्यके । अचि इत्यपरे । टु याचृ ८६३ याच्ञायाम् । याचति--याचते । रेटृ ८३४ परिभाषणे । रेटति । रेटते । चते ८६५ चदे ८६६ याचने । चचात । चेते । अचतीत् । चचाद । चेदे । अचदीत् । प्रोथृ ८३७ पर्याप्तौ । पुप्रोथ । पुप्रोथे । मिदृ ८६८ मेदृ ८६९ मेधाहिंसनयोः । मिमेद । मिमेदे । 'थान्ताविमौ' इति स्वामी । मिमेथ । 'धान्तौ' इति न्यासः । मेधृ ८७० सङ्गमे च । मेधति मिमेधे । णिदृ ८७१ णेदृ ८७२ कुत्सासन्निकर्षयोः । निनेद । निनिदतुः । निनेदे । शृधु ८७३ मृधु ८७४ उन्दने । उन्दनं क्लेदनम् । शर्धति-शर्धते । शर्धीता । मर्धति-मर्धते । बुधिर् ८७५ अवबोधने । बोधति--बोधते । इरित्त्वादङ्वा । अबुधत्--अबोधीत्--अबोधिष्ट । 'दीपजन--' (सू २३२८) इति चिण्तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् । उ बुन्दिर् ८७६ निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् ।


अवगमने इति ॥ सेट्कोऽयम् । अनिट्सु श्यन्विकरणस्यैव बुधेर्ग्रहणात् । तदाह । बोधितेति ॥ अबोधीत् । रुहधातुरनिट्क । क्रादिनियमात्थल्यपि नित्यमिट् । अजन्ताकारवत्त्वाभावात् न भारद्वाजनियमः । रोढेति ॥ लुटि तासि ढत्व धत्व ष्टुत्व ढलोपाः । रोक्ष्यतीति ॥ लृटि स्ये ढकषा । अरुक्षदिति ॥ इगुपधशलन्तत्वात् ढकषाः । कित्त्वान्न वृद्धिगुणौ । वृदिति ॥ 'ज्वलितिकसन्तेभ्यः' इति उत्तरावधेरिति कसेर्ग्रहणादेव सिद्धेः वृत्करणं स्पष्टार्थमित्याहुः । इति ज्वलादयः । गूहत्यन्ता इति ॥ 'गुहू सवरणे' इत्येतत्पर्यन्ता इत्यर्थः । चते चदे याचने । अचतीदिति ॥ एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर् अवबोधने इति ॥ 'बुध अवगमने' इति केवलपरस्मैपदी गतः । स तु ज्वलादिकार्यार्थः । अयन्तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति ॥ इरइत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येक मित्त्वाभावान्न नुम् । स्वरितेत्त्वप्रयुक्तमात्मनेपदन्तु भवत्येव । स्वरितेत्सु पाठसामर्थ्यात् । वस्तुतस्तु इकारस्य प्रत्येकमित्त्वेऽपि न नुम् । इदितो नुमित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्विधेः । पूर्वोत्तरेति ॥ जनपूरिसाहचर्येणेत्यर्थः । उ बुन्दिरिति ॥ आद्य उकार इत् । उदितो वेति क्त्वायामिड्विकल्पार्थः । अबुददिति ॥ इरित्त्वादडि अनिदितामिति नलोपः । इर इकारस्य प्रत्येकमित्संज्ञाविरहात् ।