पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३५
बालमनोरमा ।

२३६१ । सदेः परस्य लिटि । (८-६-११८)

सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः । शद्लृ ८५५ शातने । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ।

२३६२ । शदेः शितः । (१-३-६०)

शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् । क्रुश ८५६ आह्वाने रोदने च । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् । कुच ८५७ सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच । बुध ८५८ अवगमने । बोधति । बोधिता । बोधिष्यति ।


परस्य 'स्थादिष्वभ्यासेन' इति षत्वे प्राप्ते । सदेः परस्य ॥ 'न रपर' इत्यत नेत्यनुवर्तते । मूर्धन्य इत्यधिकृतम् । सदेरित्यवयवषष्ठी । परशब्द उत्तरखण्डपर । सदेरुत्तरखण्डस्य षत्वन्नेति लभ्यते । फलितमाह । सदेरभ्यासात्परस्येति । शद्लृ शातने इति ॥ ननु शद्धातोरस्मात् हेतुमण्ण्यन्तात् ल्युटि 'शदेरगतौ तः' इति दकारस्य तकारे शातनशब्द । तथाच शातनं शीर्णतानुकूलक्रियेति फलति । एवञ्च सकर्मकत्वापतौ विशीर्यतीत्यर्थे शीर्यत इति वक्ष्यमाणमुदाहरणं कथमित्यत आह । विशीर्णतायामिति ॥ विशरणे इत्यर्थ । तर्हि कथं शातनमिति हेतुमण्णिजित्यत आह । शातनन्तु विषयतयेति ॥ विपूर्वात् 'षिञ् बन्धने' इत्यस्मात् विषयशब्दः । अविनाभावेनेत्यर्थः । प्रयोजकव्यापार विना विशरणस्यासम्भवात् शातननिर्देशः । ण्यर्थस्याविवक्षितत्वात् विशरणमेव शद्लृधात्वर्थ इति यावत् । शदेः शितः ॥ 'अनुदात्तडित' इत्यस्मादात्मनेपदमित्यनुवर्तते । श् इत् यस्य स शित् । शप् विवक्षितः । शिति विवक्षिते सतीत्यर्थ । तिडुत्पत्तेः पूर्व सार्वधातुकाश्रयस्य शपोऽसम्भवात् । तदाह । शिद्भाविन इति ॥ शिद्भावी भविष्यन् यस्मात्स शिद्भावी तस्मादित्यर्थः । शीयते इति ॥ शपि सदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते । शीयन्ते । इत्यादि । शिद्विषयादित्युक्तेर्लिटि नात्मनेपदम् । इत्संज्ञकशकारादावित्युक्तेर्न शीयादेशः । तदाह । शशादेति ॥ अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इट. 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमात् वेट् । तदाह । शेदिथ । शशत्थेति च ॥ इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः । शेदिव । शेदिम । क्रादिनियमादिट् । अशददिति ॥ लृदित्त्वादडिति भावः । क्रुश धातुरनिट्कः । चुक्रोशिथ । क्रादिनियमात्थलि नित्यमिट् । अजन्ताकारवत्त्वाभावान्न भारद्वाजनियम. । चुक्रुशिव । चुक्रुशिम । क्रोष्टेति ॥ व्रश्चादिना शस्य षत्वे ष्टुत्वेन तकारस्य ट । च्लेः क्स इति ॥ इगुपधशलन्तत्वादिति भावः । अक्रुक्षदिति ॥ व्रश्चादिना शस्य षः । 'षढोः' इति षस्य कः । सस्य षत्वम् । कित्त्वान्न गुणः । नापि हलन्तलक्षणा वृद्धिः । कुच सम्पर्चने इति ॥ 'कुच शब्दे' इति पठितस्य पुनरिह पाठः सम्पर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देश. क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् । बुध