२३५८ । सोढः । (८-३-११५)
सोड्रूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ।
२३५९ । सिवादीनां वाड्व्यवायेऽपि । (८-३-७१)
परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यषहत । पर्यसहत । रमु ८५३ क्रीडायाम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ।
अथ कसन्ताः परस्मैपदिनः । पद्लृ ८५४ विशरणगत्यवसादनेषु ।
२३६० । प्राघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां षिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः । (७-३-७८)
षादीनां षिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ--ससत्थ । सत्ता । सत्स्यति । लृदित्त्वादङ् । असदत् । 'सदिरप्रतेः' ( सू २२७१) निषीदति । न्यषीदत् ।
असम्भवात् । तथाच सकारादाकारस्य ओत्वे सोढेति रूपम् । परिसोढेत्यत्र परिनिविभ्य इति षत्वे प्राप्ते । सोढः ॥ सोढ इति सहेरोत्वसम्पन्नस्य पष्ठ्यन्तत्वम् । 'सहे: साढस्सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । 'न रपर' इत्यतो नेति । मूर्धन्य इत्यधिकृतम् । तदाह । सोड्रूपस्येत्यादिना । सिवादीनाम् ॥ 'परिनिविभ्यः' इति सूत्रादुत्तरमिदं सूत्रम् । तदाह । परिनिविभ्यः परेषामिति ॥ सिबुसहसुट्स्तुस्वञ्जामिति शेष । रमु क्रीडायामिति ॥ नायमुदिदिति माधव । केचित्तु उदितं मत्वा 'उदितो वा' इति क्त्वायामिड्विकिल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि क्रादिनियमादिट् । तदाह । रेमिषे इति । अथ कसन्ता इति ॥ 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः । पद्लृधातुः षोपदेशः अनिट्कश्च । लटि शपि सद् अ इति स्थिते । पाघ्राध्मा ॥ पा घ्रा ध्मा स्था स्ना दाण् दृशि अर्ति सर्ति शद् सद् एषान्द्वन्द्वात् षष्ठीबहुवचनम् । पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ॠच्छ धौ शीय सीद एषान्द्वन्द्वात् प्रथमाबहुवचनम् । यथासङ्ख्यमादेशाः । ष्ठिवुक्लमु इत्यतः शितीत्यनुवर्तते । शचासौ इच्चेति कर्मधारयः । अङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः । तदाह । इत्संज्ञकेति । ससादेति ॥ इत्संज्ञकशकारादिप्रत्ययाभावात् न सीदादेशः । श् इत् यस्यसः शित् शितीति बहुव्रीह्याश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे पषे इत्यत्रापि षिबादेशः स्यादिति बोध्द्यम् । थलि क्रादिनियमप्राप्तस्य इट 'उपदेशे अत्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे थलि च सेटीत्येत्त्वाभ्यासलोपौ । तदाह । सेदिथ, ससत्थेति ॥ सेदिव । सेदिम । क्रादिनियमादिट् । न्यषीददिति ॥ 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । निषसादेत्यत्र अभ्यासात्