पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२३३
बालमनोरमा ।

अङि परे । अपप्तत् । 'नेर्गद---' (सू २२८५) इति णत्वम् । प्रण्यपप्तत् । क्वथे ८४६ निष्पाके । क्वथति । चक्वाथ । अक्वथीत् । पथे ८४७ गतौ । अपथीत् । मथे ८४८ विलोडने । मेथतुः । अमथीत् । टु वम् ८४९ उद्गिरणे । इहैव निपातनात् ॠतः इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्वादेत्त्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतम् । तद्भाष्यादौ न दृष्टम् । भ्रमु ८५० चलने । 'वा भ्राश--' (सू २६२१) इति श्यन्वा भ्रम्यति । भ्रमति । भ्राम्यति इति तु दिवादौ वक्ष्यते ।

२३५६ । वा जॄभ्रमुत्रसाम् । (६-४-१२४)

एषामेत्त्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः-बभ्रमतुः । अभ्रमीत् । क्षर ८५१ संचलने । अक्षारीत् ।

अथ द्वावनुदात्तेतौ । षह ८५२ मर्षणे । 'परिनिविभ्यः--' (सू-२२७५) इति षत्वम् । परिषहते । सेहे । सहिता । 'तीषसह--'(सू २३४०) इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ।

२३५७ । सहिवहोरोदवर्णस्य । (६-३-११५)

अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ।


सूत्र व्याचष्टे । अङि परे इति ॥ 'ॠदृशोऽडि' इत्यत तदनुवृत्तेरिति भाव । पतेः पुम् स्यादडि परे इति फलितम् । पुमि मकार इत् उकार उच्चारणार्थ मित्त्वादन्त्यादचः पर । तदाह । अपप्तदिति । क्वथे निष्पाके इति ॥ जलक्षीरशृतादीनाम्पादभागादिशोषणपर्यन्त पाको निष्पाक । अक्वथीदिति ॥ एदित्त्वान्न वृद्धि । एव अमथीत् । टु वम् उद्गिरणे इति ॥ टुरित् । नायमुदित् । तेन 'उदितो वा' इति क्त्वायामिड्विकल्पो न । 'गॄनिगरणे' इति दीर्घान्तोऽयम् । नन्वस्माद्धातोर्ल्युटि 'ॠत इद्धातोः' इति इत्त्वम्बाधित्वा परत्वात् 'सार्वधातुक’ इति गुणे सति उद्गरण इत्येव निर्देशो युज्यत इत्यत आह । इहैवेति ॥ उद्गिरण इत्यर्थनिर्देश पाणिनीय इति सुधाकरो मन्यते । भ्रमु चलने इति ॥ वक्रमार्गसञ्चारे इत्यर्थ । अयथार्थज्ञानेऽप्ययम् । उदितो वेति क्त्वायामिड्विकल्पार्थमुदित्त्वम् । वा जॄभ्रमु ॥ 'अत एकहल्मध्द्ये' इत्यतो लिटि इति 'थलि च सेटि' इति चानुवर्तते । 'घ्वसोरेद्धौ' इत्यतः एदिति 'गमहनेत्यत' कितीति च । तदाह । एषामिति । अभ्रमीदिति ॥ ह्य्यन्तेति न वृद्धिः । अक्षारीदिति ॥ 'अतो ल्रान्तस्य' इति वृद्धिः । षह मर्षणे इति ॥ अपराधे सत्यपि कोपानाविष्करण मर्षणम् । इडभावे इति ॥ सह् ता इति स्थिते होढ इति ढत्व 'झषस्तथोः' इति तकारस्य धत्वम् । धस्य ष्टुत्वेन ढ । 'ढोढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः । सढा इति स्थितम् । सहिवहोः । ढलोपे इति ॥ ढ्रलोप इत्यतः तदनुवृत्तेरिति भावः । रलोप इति तु नानुवर्तते ।