सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
[भ्वादि
सिध्दान्तकौमुदीसहिता

दिपत्वाभावार्थः । तत्र हि राजिसाहचर्यात्फणादेरेव ग्रहणम् । भ्रेजे-बभ्राजे । 'वा भ्राश-' (२३२१) इति श्यन्वा । भ्राश्यते—भ्राशते । भ्रेशे-बभ्राशे । भ्लाशते भ्लाश्यते । भ्लेशे—बभ्लाशे । द्वावपीमौ तालव्यान्तौ । स्यमु ८२६ स्वन ८२७ ध्वन ८२८ शब्दे । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः-सस्यमतुः । अस्यमीत् । स्वेनतुः-सस्वनतुः । सस्वनुः । अस्वनीत्-अस्वानीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्त इत्यर्थः । 'वेश्च स्वनः-' (सू २२७४) इति षत्वम् । फणादयो गताः । दध्वनतुः । षम ७२९ ष्टम ८३० अवैकल्ये । ससाम । तस्ताम । ज्वल ८३१ दीप्तौ 'अतो ल्रान्तस्य' (सू-२३३०) । अज्वालीत् । चल ८३२ कम्पने । जल ८३३ घातने । घातनं तैक्ष्ण्यम् । टल ८३४ ट्वल ८३५ वैक्लव्ये । ष्ठल ८३६ स्थाने । हल ८३७ विलेखने । णल ८३८ गन्धे । 'बन्धने' इत्येके । पल ८३९ गतौ । पलति । बल ८४० प्राणने, धान्यावरोधने च । बलति । बेलतुः । बेलुः । 'पुल ८४१ महत्त्वे' । पोलति । कुल ८४२ संस्त्याने बन्धुषु च । संस्त्यानं सङ्घातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल । शल ८४३ हुल ८४४ पत्लृ ८४५ गतौ । शशाल । जुहोल । पपात । पेततुः । पतिता ।

२३५५ । पतः पुम् । (७-४-१९)


'एजृ भ्रेजृ भ्राजृ दीप्तौ' इति भ्राजे पाठो व्यर्थ इत्यत आह । भ्राजतेरिति । षत्वाभावार्थ इति ॥ व्रश्चभ्रस्जेति षत्वविधौ भ्राजेर्ग्रहणाभावार्थ इत्यर्थ. । ननु पूर्वं पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत आह । तत्र हीति ॥ षत्वविधौ हीत्यर्थः । एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह । भ्रेजे बभ्राजे इति । द्वावपीमाविति ॥ द्वितीयतृतीयावित्यर्थः । ननु विष्वणतीत्यत्र कथं षत्वम् । केवलदन्त्याजन्तसादत्वाभावेन अपोपदेशतया आदेशसकारत्वाभावात् । तथा अवष्वणतीत्यत्र इण्कवर्गाभ्याम्परत्वाभावान्न षत्वस्य प्रसक्तिः । सात्पदाद्योरिति निषेधाच्चेत्यत आह । वेश्च स्वन इतीति ॥ तत्र चकारेण अवाच्चेत्यपि लभ्यत इति भावः । फणादयो गता इति ॥ ध्वनतेः प्रागिति शेष । ततश्च ध्वनेर्न फणादिकार्यमिति भावः । तदाह । दध्वनतुरिति । षम ष्टमेति ॥ षोपदेशौ । तस्तामेति ॥ सत्वे सति ष्टुत्वनिवृत्तिरिति भावः । तैक्ष्ण्यमिति ॥ तीक्ष्णीभवनमित्यर्थः । टल ट्वल वैक्लब्ये इति ॥ वैक्लव्यम्भयादिजनितो व्यग्रीभाव. । णल गन्धे इति ॥ णोपदेशोऽयम् । गन्धः गन्धक्रिया । तद्व्यापार इति ॥ बन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः । पत्लृधातुस्तवर्गप्रथमान्तः सेट्कः । लुडि लृदित्त्वात् च्लेरडि कृते अपत् अ त् इति स्थिते । पतः पुम् ॥ शेषपूरणेन