पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३१
बालमनोरमा ।

मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् । फण ८२१ गतौ । 'न' इति निवृत्तमसम्भवात् । निषेधात्पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् ।

२३५४ । फणां च सप्तानाम् । (६-४-१२५)

एषां वा एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । पफणतुः । पफणुः । फेणिथ । पफणिथ । फणयति । 'वृत्' घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फाणयतीत्येव । राजृ ८२२ दीप्तौ । 'स्वरितेत्' । राजति-राजते । रेजतुः-रराजतुः । रेजे-रराजे । 'अतः' इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्त्वम् । टु भ्राजृ ८२३ टु भ्राशृ ८२४ टु भ्लाशृ ८२५ दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चा-


वेषणे । स्खदिरवपरिभ्याञ्चेति सूत्रद्वये उक्तरीत्या मित्त्वनियमविध्द्याश्रयणादुदाहरणप्रत्युदाहरणयोरुत्क्तरीत्या व्यत्यास. फलित इत्यर्थः । उपेक्ष्यमिति ॥ 'न पादमाड्' इति सूत्रव्याख्यावसरे यमोऽपरिवेषणे इति मित्त्वम्प्रतिषिध्द्यत इति वृत्तिन्यासयोरुक्तत्वादिति भावः । केचित्तु स्वामिमते पर्यवसितन्नियमयन्नित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः । फण गताविति ॥ ननु घटादित्वेऽपि नाय मित् । इत प्राक् 'स्वन अवतसने' इति उत्तरमेव घटादयो मित इत्युक्तेः । तत्राह । न इति निवृत्तमसम्भवादिति ॥ प्राप्ति विना मित्त्वस्य निषेधासम्भवादिह नेति नानुवर्तते किन्तु मिदित्येवानुवर्तत इत्यर्थः । ननु फण गतावित्यत्र मिन्नेति यदि नानुवर्तते तर्हि 'न कम्यमिचमाम्' इति निषेधकाण्डात् प्रागेवायङ्कुतो न पठित । तदाह । निषेधात्पूर्वमसौ न पठित इति ॥ कुत इत्यत आह । फणादिकार्यानुरोधादिति ॥ निषेधकाण्डात्प्रागेव फणे पाठे कम्यमिचमीनामपि फणादिष्वन्तर्भाव स्यादिति भाव । फणाञ्च ॥ 'अत एकहल्मध्द्ये' इत्यतो लिटीति 'थलिच सेटि' इति चानुवर्तते । 'ध्वसो' इत्यतः एदिति, गमहनेत्यतः कितीति 'वा जॄभ्रमुत्रसाम्' इत्यतो वेति च । तदाह । एषामिति ॥ फणादीनामित्यर्थः । फणामिति बहुवचनात् तदादिलाभः । 'फण गतौ' इत्यत्र मिदित्येवानुवर्तते नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह । फणयतीति । वृदिति ॥ कर्तरि क्विबन्तम् । वृतुधातुरिह समाप्त्यर्थकः । तदाह । घटादिः समाप्त इति । फणेः प्रागेवेति ॥ एवं सति फणेरघटादित्वान्न मित्त्वमिति भावः । तदाह । तन्मते फणयतीत्येवेति ॥ इति घटादय. । राजृ दीप्ताविति ॥ इत आरभ्य षण्णामेत्त्वाभ्यासलोपौ फणादित्वात्पक्षे भवत । तदाह । रेजतुरित्यादि ॥ ननु 'फणाञ्च सप्तानाम्' इत्यत्र अत इत्यनुवृत्ते कथमिह एत्त्वाभ्यासलोपावित्यत आह । अत इत्यनुवृत्तावपीति ॥ अत इति नानुवर्तते । तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्यात् राजृधातोराकारस्याप्येत्वाभ्यासलोपस्य विकल्प. स्यादेवेत्यर्थ । अत इति राजादिधातौ न सम्बध्द्यते, असम्भवादिति यावत् । टु भ्राजृ टु भ्राशृ टु भ्लाशृ दीप्ताविति ॥ टुरित् । ट्वितोऽथुजित्येतदर्थः । अनुदात्तेत इति ॥ एते त्रय इति शेषः । ननु टु भ्राजृ इत्येव सिद्धौ पूर्वञ्चवर्गान्तेष्वनुदात्तेत्सु