पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
[भ्वादि
सिध्दान्तकौमुदीसहिता

तीत्यर्थः । 'पर्यवसितं नियमयन्' इत्यादि तु नियमवच्छब्दात्तत्करोतीति णौ बोद्ध्यम् । 'स्खदिर् ८२० अवपरिभ्यां च' (ग सू १९४) । मिन्नेत्येव । अवस्खादयति । परिस्खादयति । 'अपावपरिभ्यः' इति न्यासकारः । स्वामी तु 'न कमि—' इति नञमुत्तरत्रिसूत्र्यामननुवर्त्य 'शमः अदर्शने' इति चिच्छेद । यमस्तु 'अपरिवेषणे' मित्त्वमाह । तन्मते 'पर्यवसितं नियमयन्' इत्यादि सम्यगेव । 'उपसृष्टस्य स्खदेश्वेदवादिपूर्वस्य' इति नियमात्प्रस्खादयतीत्याह । तस्मात्सूत्रद्वये उदाहरणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदञ्च


ह्रस्व इत्यत आह । पर्यवसितमित्यादि ॥ नियमनन्नियमः । 'यमः समुपनिविषु च' इति भावे कप्रत्ययः । तस्मान्मतुप् । नियमवच्छब्दात्तत्करोतीति णिचि 'विन्मतोर्लुक्' इति मतुपो लुकि ण्यन्ताल्लटश्शतरि गुणायादेशयोर्नियमयच्छब्द इति भावः । वस्तुतस्तु मतुपो लुकि टिलोपस्याप्राप्त्या 'अचो ञ्णिति' इति वृद्धौ पुगागमापत्तिः । ततश्च नियमवदित्यर्थकात् अर्श आद्यजन्तात् नियमशब्दात् 'तत्करोति' इति णिचि इष्ठवत्त्वाट्टिलोपे तस्य स्थानिवत्त्वादुपधावृध्द्यभावे नियमयन्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् । 'स्खदिरवपरिभ्याञ्च' इत्यपि गणसूत्रम् । स्खदिरिति इका निर्देशः । अव परि आभ्याम्पर. स्खदधातुर्मिन्नेत्यर्थः । 'स्खद स्खदने' इति घटादौ पाठान्मित्त्वप्राप्तिः । परिस्खादयतीति ॥ अषोपदेशत्वेन आदेश सकारत्वाभावान्न ष इति भावः । अपावेति ॥ 'स्खदिरपावपरिभ्यः' इति न्यासकारः । पपाठेत्यर्थः । तन्मते अपस्खादयतीत्यत्रापि मित्त्वाभावान्न ह्रस्वः । स्वामी त्विति ॥ 'न कम्यमिचमाम्' इत्यत्र श्रुत. नञ् 'शमो दर्शने' 'यमोऽपरिवेषणे' 'स्खदिरवपरिभ्याञ्च' इति त्रिषु सूत्रेषु नानुवर्तते । शमः अदर्शने इति च्छेद. । शमधातुः अदर्शने मित्स्यादित्यर्थः । अमन्तत्वादेव सिद्धे नियमार्थमिदम् । अदर्शन एव शमधातुर्मित्स्यात् नतु दर्शने इति स्वामिमतम् । इदञ्च पर्यवसानगत्या पूर्वमतान्नातिरिच्यते । यमस्त्विति ॥ यमधातोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः । अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्मित् नतु परिवेषण इति फलति । एवञ्च द्राघयति व्यापारयति वेत्यर्थे मित्त्वाध्द्रस्वे आयमयतीत्येव रूपम् । परिवेषणे तु मित्त्वाभावाध्द्रस्वाभावे यामयति ब्राह्मणानिति भवतीति पूर्वमताद्विपरीतम्फलति । एवञ्च पर्यवसितन्नियमयन्नित्यत्र यमेरपरिवेषणार्थत्वान्मित्त्वे ह्रस्वो निर्वाधः । तदाह । तन्मते इति ॥ स्खदेर्घटादित्वादेव मित्त्वसिद्धेः स्खदिरवपरिभ्याञ्चेति सूत्रमपि नियमार्थम् । सोपसर्गस्य चेत् स्खदेर्मित्त्व तर्हि अवपारिभ्यां परस्यैव मित्त्व न तूपसर्गान्तरादिति । एवञ्च प्रस्खादयतीत्यत्र मित्त्वाभावान्न ह्रस्वः । अवस्खदयति परिस्खदयति इत्यत्र तु मित्त्वाध्द्रस्व इति फलति । तदाह । उपस्पृष्टस्येति ॥ सोपसर्गस्येत्यर्थः । पूर्वमते तु अवपरिभ्याम्परस्य मित्त्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः । प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाभावेन मित्त्वनिषेधाभावाध्द्रस्व इति विपरीतम् । तस्मादिति ॥ यमोऽपरि-