पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२९
बालमनोरमा ।

सः' इत्यादि व्याख्यातम् । 'ग्लास्नावनुवमां च' (ग सू १९०) । अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । 'न कम्यमिचमाम्' (ग सू १९१) । अमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात् । कामयते । आमयति । चामयति । शमो ८१८ दर्शने (ग सू १९२) । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु 'प्रणयिनो निशमय्य वधूकथाः' कथं तर्हि 'निशामय तदुत्पत्तिं विस्तराद्नदतो मम' इति । 'शम आलोचने' इति चौरादिकस्य । धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः । शाम्यतिवत् । यमो ८१९ ऽपरिवेषणे (ग सू १९३) । यच्छतिर्भोजनतोऽन्यत्र मिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजय-


भात् । वृत्तिकृदिति ॥ भाष्ये तु नैतद्दृश्यत इति भावः । एतेनेति ॥ व्यवस्थितविभाषाश्रयणेनेत्यर्थ. । 'ग्लास्नावनुवमाञ्च' इत्यपि गणसूत्रम् । प्रथमार्थे षष्ठी । अनुपसर्गादिति मित इति वेति चानुवर्तते । फलितमाह । अनुपसर्गादिति । आद्ययोरिति ॥ ग्लास्ना इत्यनयोरघटादित्वादप्राप्ते मित्त्वे इतरयोर्वनुवमो प्राप्ते मित्त्वे विभाषेत्यर्थः । तत्र 'वनु च नोच्यते' इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्द्यम् । 'न कम्यमिचमाम्' इति शमो दर्शने इति च गणसूत्रम् । दर्शन चाक्षुषज्ञानम् । 'शम उपशमे' इति दैवादिक श्यन्विकरण एवात्र गृह्यते । नतु 'शम आलोचने' इति चौरादिक । नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् । तदाह । शाम्यतिरिति । निशामयति रूपमिति ॥ पश्यतीत्यर्थः । उपशमार्थकस्यापि अनेकार्थकत्वात् दर्शने वृत्तिः । अन्यत्रेति ॥ दर्शनादन्यत्रेत्यर्थः । निशमय्येति ॥ श्रावयित्वेत्यर्थः । शमेर्ण्यन्तात् क्त्वो ल्यपि कृते 'ल्यपि लघुपूर्वात्' इति णेरयादेशः । कथमिति ॥ तर्हि दर्शनार्थकस्यैव शमेर्मित्त्वनिषेधे सति शृणु इत्यर्थे मित्त्वाध्द्रस्वप्रसङ्गान्निशामयेति कथमित्याक्षेपः । समाधत्ते । शम आलोचने इति चौरादिकस्येति ॥ निशामयेति रूपमिति शेषः । नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् नह्रस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात् कथं श्रवणे वृत्तिरित्यत आह । धातूनामिति । शाम्यतिवदिति ॥ श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शने वृत्तिस्तद्वदित्यर्थः । 'यमोऽपरिवेषणे' इत्यपि गणसूत्रम् । भोजनपात्रे ओदनापूपादिभोज्यद्रव्याणां स्थापनम्परिवेषणम् । तदाह । भोजनतोऽन्यत्रेति ॥ भुक्तयनुकूलपरिवेषणादन्यत्रेत्यर्थः । 'यम उपरमे' इत्यस्य उपसर्गवशात् परिवेषणे ततोऽन्यस्मिन्नप्यर्थे वृत्तिः सम्भवति । तत्र अपरिवेषणे वृत्तौ मित्त्वन्नेत्यर्थः । आायामयतीति ॥ अत्रापरिवेषणे वृत्तेर्नमित्त्वमिति भावः । तदाह । द्राघयतीति ॥ दीर्घीकरोतीत्यर्थः । व्यापारयतीति ॥ प्रवर्तयतीत्यर्थः । यमयति ब्राह्मणानिति ॥ परिवेषणार्थकत्वान्मित्त्वमिति भावः । तदाह । भोजयतीति ॥ भुञ्जते ब्राह्मणाः तान्परिवेषणेन प्रवर्तयतीत्यर्थः । ननु पर्यवसित नियमयन्नित्यत्र अपरिवेषणार्थकतया मित्त्वाभावात्कथं